________________
आगम
(४४)
प्रत
सूत्रांक
॥४४॥
दीप
अनुक्रम
[४६]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [-] /गाथा ||४४||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
आह च आवश्यकचूर्णिकृत् “वक्खणाइस दोसे हिययंमि उवेइ मुयह गुणजालं । सो सीसो उ अजोग्गो भणिओ परिपूणगसमाणो ॥ १ ॥" आह-सर्वज्ञमतेऽपि दोषाः सम्भवन्तीत्यश्रद्धेयमेतत् सत्यम्, उक्तमत्र भाष्यकृता - "संहण्णुप्पामण्णा दोसा हु न संति जिणमए केऽवि । जं अणुवत्तवकहणं अपत्तमासज्ज व हवंति ॥ १॥ ६ ॥ सम्प्रति हंस दृष्टान्तभावना, यथा हंसः क्षीरमुदकमिश्रितमप्युदकमपहाय क्षीरमापिवति तथा शिष्योऽपि यो गुरोरनुपयोगसम्भवान् दोषानवधूय गुणानेव केवलानादत्ते स हंससमानः, स चैकान्तेन योग्यः । ननु हंसः क्षीरमुदकमिश्रितमपि कथं विभक्तीकरोति १, येन क्षीरमेव केवलमापिवति न तूदकमिति, उच्यते, तजिह्वाया अम्लत्वेन क्षीरस्य कूर्चिकी - भूय पृथगभवनात् उक्तं च- "अम्बत्तणेण जीहाऍ कूचिया होइ खीरमुदयंमि । हंसो मोत्तूण जलं आवियइ पय तह सुसीसो ॥ १ ॥ मोचूण दढं दोसे गुरुणोऽणुवउत्तभासियाईपि । गिन्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स ॥ २ ॥ ७॥ इदानीं महिषदृष्टान्तभावना -यथा महिषो निपातस्थानमवाप्तः सन् उदकमध्ये प्रविश्य तदुदकं | मुहुर्मुदुः शृङ्गाभ्यां ताडयन्नवगाहमानश्च सकलमपि कलुषीकरोति, ततो न स्वयं पातुं शक्नोति नापि यूथं, तद्वत्
१] व्याख्यानादिषु दोषान् हृदये स्थापयति मुञ्चति गुणजालम् । स शिष्यस्तु अयोग्यो भणितः परिपूर्णकसमानः ॥ १॥ २ सर्वज्ञप्रामाण्यात् दोषा नैत्र सन्ति जनमते केऽपि । वदनुपयुक्तकथनं अपात्रमासाथ वा भवन्ति ॥ १ ॥ ३ अम्लत्वेन जिह्वायाः कूर्चिका भवति क्षीरमुदके । सो मुक्खा जलमापिवति पयः तथा सुशिष्यः ॥ १ ॥ ४ मुक्त्वा दर्द दोषान् गुरोरनुपयुक्त भाषितादोनपि गृहाति गुणान् तु यः स योग्यः समयार्थसारस्य २ ॥
Smationd
For Penal Use Only
~ 118~
हंसदृष्टान्त उपनयश्च ७ ५
महिषटान्त उ
। पनयश्च. ८
१३
wor