________________
आगम (४३)
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [२१],
मूलं [-] / गाथा ||११-२३|| नियुक्ति: [४३५...]
प्रत
सूत्राक
॥११
-२३||
वचनादिकं सहत इति क्षान्तिक्षमः, संयत इति संयतः स चासौ प्रमचारी च संयतब्रह्मचारी पूर्व ब्रह्मप्रति-1 पत्त्या गतत्वेऽपि ब्रह्मचारीत्यभिधानं ब्रह्मचर्यस्य दुरनुचरत्वख्यापनार्थम् , अनेन च मूलगुणरक्षणोपाय उक्तः ।। 'कालेण कालं'ति रूढितः काले प्रस्तावे यद्वा कालेन-पादोनपौरुष्यादिना कालमिति-कालोचितं प्रत्युपेक्षणादि कुर्वन्निति शेषः, 'राष्ट्र' मण्डले 'बलायलं' सहिष्णुत्वासहिष्णुत्वलक्षणं ज्ञात्वाऽऽत्मनः यथा यथाऽऽत्मनः संयमयोगहानिर्न जायते तथा तथेत्यभिप्रायः, अन्यच्च सिंहवत् 'शब्देन' प्रस्तावाद्भयोत्पादकेन 'न समत्रस्यत्' नैव सत्त्वाचलितवान्, सिंहदृष्टान्ताभिधानं च तस्य सात्त्विकत्वेनातिस्थिरत्वात् , अत एव च वाग्योगम् अर्थाद् दुःखोत्पादक 'सोच'त्ति श्रुत्वा 'न' नैव 'असभ्यम्' अश्लीलरूपम् 'आहुत्ति उक्तवान् । तर्हि किमयमकरोदित्याह-'उपेक्षमाणः' तमवधीरयन् पर्यव्रजत, तथा 'प्रियम्' अनुकूलम् 'अप्रियम् । अननुकूलं 'सब तितिक्खएजति सर्वम् 'अतितिक्षत' सोढवान् , किञ्च-'न सव'त्ति सर्व वस्तु सर्वत्र स्थानेऽभ्यरोचयत, न यथादृष्टाभिलापुकोऽभूदिति भावः, यदिवा यदेकत्र पुष्टालम्बनतः सेवितं न तत्सर्वम्-अभिमताहारादि सर्वत्राभिलषितवान्, न चापि पूजां गही वाऽभ्यरोचयतेति सम्बन्धः, इह च गातोऽपि कर्मक्षय इति केचिदतस्तन्मतव्यवच्छेदार्थ गर्हाग्रहण,यद्वा गाँ-परापवादरूपा । ननु भिक्षोरपि किमन्यथाभावः संभवति? येनेस्थमित्थं च तद्गुणाभिधानमित्याह-'अणेग'त्ति वृत्ता, तत्र च 'अणेग'त्ति अनेके 'छन्दाः' अभिप्रायाः संभवन्तीति
दीप अनुक्रम [७८३-७९५]]
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~970~