________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [६]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [-] / गाथा ||६||
अध्ययनं [१],
सुणियाभावं साणस्स, सूयरस्त नरस्स य। विणए ठविज अप्पाणं, इच्छंतो हियमप्पणो ॥ ६॥ (सूत्रम्) व्याख्या- 'श्रुत्वा' आकर्ण्य 'अभाव' नञः कुत्सायामपि दर्शनादशोभनं भावं सर्वतो निष्काशनलक्षणं पर्याय 'साणस्स' त्ति प्राकृतत्वादिवेत्यस्य गम्यमानत्वात् शून्या इव 'सूकरस्य' उक्तन्यायेन शूकरोपमस्य नरस्य, 'चः' पूरणे, यद्वा शून्याः शूकरस्य च दृष्टान्तस्य नरस्य च दार्शन्तिकस्याशोभनं भावं त्रयाणामप्युक्तरूपं श्रुत्वा, किमित्याह- 'विनये' वक्ष्यमाणस्वरूपे, स्थापयेदात्मानम्, आत्मनैवेति गम्यते, 'इच्छन्' वान्छन् 'हितम् ऐहिकमामुष्मिकं च पथ्यम् 'आत्मनः' स्वस्थ, इह च पुनर्दृष्टान्ताभिधानमुपसंहारत्वेनाविनये शिष्यस्याशुभभावस्योत्पादनार्थत्वेन वा नाप्रकृतमिति सूत्रार्थः ॥ ६ ॥ यतथैवं ततः किमित्याह
Education intimation
तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ । बुद्धउत्ते नियागट्ठी, न निक्कसिजड़ कण्हुइ ॥७॥ (सूत्रम्)
व्याख्या—'तस्माद्' इति यस्मादविनयदोपदर्शनादात्मा विनये स्थापनीयस्तस्मात् विनयम् 'एषयेत्' अनेकार्थत्वेन धातूनां पर्यवसितवृत्या वा कुर्यात् एवं ह्यात्मा विनये स्थाप्यत इति, किं पुनरस्य विनयस्य फलं ? येनैवमत्रात्मनोऽवस्थापनमुद्दिश्यत इत्याशङ्क्याह-- 'शीलम्' उक्तरूपं 'प्रतिलभेत' प्राप्नुयात् 'यत' इति विनयात् अनेन | विनयस्य शीलावासिः फलमुक्तम्, अस्यापि किं फलमित्याह- बुद्धैः - अवगत तत्त्वैस्तीर्थकरा दिभिरुक्तम्- अभिहितं,
निर्युक्ति: [६३...]
For Fans Only
~94~
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः