________________
आगम
(४३)
प्रत
सूत्रांक
||५||
दीप
अनुक्रम [4]
उत्तराध्य.
बृहद्वृत्तिः
॥ ४५ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः)
मूलं [-] / गाथा ||५||
अध्ययनं [१],
आह-दौः शील्यनिमित्त एवायमविनीतस्य दोषः, प्रत्यनीकतामुखरत्वयोरपि तत्प्रभवत्वात् तत्र चैत्रमनर्थहेतो किमसौ प्रवर्तत इति, जत्रोच्यते, पापोपहतमतित्वेन तत्रैवास्याभिरतिरितिकृत्वा, तामेव दृष्टान्तपूर्विकामाहकणकुंडगं जहित्ता णं, विद्वं भुंजइ सूयरो । एवं सीलं जहित्ता णं, दुस्सिले रमइ मिए ॥५॥ (सूत्रम्)
Education intemational
व्याख्या -- कणाः - तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः- तत्क्षोदनोत्पन्नकुक्कुसः कणकुण्डकस्तं 'हित्वा' पाठान्तरतस्त्यक्त्वा वा 'विष्ठां' पुरीषं 'भुङ्क्ते' अभ्यवहरति 'सूकर' इति गतसूकरो, यथेति गम्यते, एवं 'शीलम् उक्तरूपं 4 प्रस्तावाच्छोभनं 'हित्वा' प्राग्वच्यक्त्वा वा दुष्टं शीलं दुःशीलं तस्मिन् भावप्रधानत्वाद्वा निर्देशस्य दुष्टं शीलमस्येति दुःशीलतद्भावो दौः शील्यं तस्मिन्, उभयत्र दुराचारादी 'रमते धृतिमाधत्ते मृग इव मृगः अज्ञत्वादविनीत इति प्रक्रमः, इदमत्र हृदयं यथा मृग उद्गीर्णासिपुत्रिक गौरिगायन पुरुषहेतु कमायती मृत्युरूपमपायमपश्यन्नज्ञः, एवमयमपि दौः शील्य हेतु कमागामिनं भवभ्रमणलक्षणमपायमनालोकयन्नज्ञ एवं सन् गर्तासूकरोपमः सदा पुष्टिदायिकणकुण्डकसदृशं शीलमपहाय विवेकिजनगर्हिततया विष्ठोपमे दुःशीले दौःशील्ये वा रमते, इह च दृष्टान्तेऽपि विभुक्त्यभिरतिरेवार्धत उक्ता तदविनाभावित्वात्तस्याः, यद्वा शुभपरिहारेणाशुभाश्रयणमुभयत्रापि सादृश्यनिमित्तमस्तीति नोपमानोपमेयभावविरोध इति सूत्रार्थः ॥ ५ ॥ उक्तोपसंहारपूर्वकं कृत्योपदेशमाह
निर्युक्ति: [६३...]
Forest
~93~
अध्ययनम्
१
॥ ४५ ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः