SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥२४ -४३|| दीप अनुक्रम [६३० -६५७] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||२४-४३|| अध्ययनं [१९], Jan Education Intional पामियं कापोती येवं वृत्तिः - निर्वहणोपायः, यथा हि ते नित्यशङ्किताः कणकीटकादिग्रहणे प्रवर्त्तन्ते, एवं भिक्षुरप्येषणादोषशङ्कयेव भिक्षादौ प्रवर्त्तते सा च दुरनुचरत्वेन दारयति कातरमनांसीति दारुणेत्युत्तरेण योगः, अभिधेयवशाच लिङ्गविपरिणामः, उपलक्षणं चैतत्समस्तोत्तरगुणानामिति, यथेह ब्रह्मन्नतस्य पुनर्दुर्द्धरत्याभिधानं तदस्याति| दुष्करत्वख्यापनार्थम् ॥ उपसंहारमाह - सुखं - सातं तस्योचितो - योग्यः सुखोचितः 'सुकुमारः' अकठिनदेहः 'सुमजितः' सुष्ठु त्रपितः सकलनेपथ्योपलक्षणं चैतत् इह च सुमज्जितत्वं सुकुमारत्वे हेतुः, उभयं चैतत्सुखोचितत्वे, अतश्च 'न हुसि'त्ति नैव असि भवसि 'प्रभुः' समर्थः 'श्रामण्यम्' अनन्तरोदितगुणरूपम् 'अणुपा लेउ' न्ति अनुपालयितुम्, इह च सुखोचितत्वाभिधानमनीदृशो हीदृशं दुःखमपि न दुःखमिति मन्यते ॥ पुनरप्रभुत्वमेवोदाहरणैः समर्थयितुमाह- 'अविश्रामः' यत्रोद्धृते न विश्रम्यते 'गुणानां' यतिगुणानां 'तुः' पूरणे 'महाभरः' महासमूहो गुरुको लोहभार इव यो दुर्बहः स वोढव्य इति शेषः, त्वं तु सुखोचित इत्यतो न प्रभुरसीत्युत्तरत्रापि योजनीयम् ॥ आकाशे गङ्गाश्रोतोवद् दुस्तर इति योज्यते, लोकरूढ्या चैतदुक्तं, तथा प्रतिश्रोतोवत्' यथा प्रतीपं जलप्रवाहो 'दुस्तरः' दुःखेन तीर्यत इति, बाहुभ्यां 'सागरो चेव'ति सागरयच दुस्तरो यः सः 'तरितव्यः' पारगमनायावगाहयितव्यः कोऽसौ ?, गुणाः - ज्ञानादयस्त उदधिरिव गुणोदधिः, कायवाङ्मनोनियत्रणा चात्र दुष्करत्वे हेतुः, 'निराखादः' नीरसो विषयगृद्धानां वैरस्यहेतुत्वात् ॥ 'अही' त्यादि, अहिरिकोऽन्तो- निश्चयो यस्याः सा तथा, For PP Use On निर्युक्तिः [४१४... ] ~912~ janibrary मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy