________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-] / गाथा ||१||
नियुक्ति: [६१]
(४३)
अध्ययनम्
प्रत सूत्रांक ||१||
उत्तराध्य. जायते, कस्य -जीवस्य, पुनः कीरशस्य ?-प्रभवति-सम्बन्धिवस्तु तत्र तत्र खकृत्ये नियोक्तुं समर्थो भवतीति प्रभु-
स्तस्य वा 'अप्रभोर्वा' उक्तविपरीतस्य, वाशब्दो समुच्चये, उभयोरपि संयोगसाम्य प्रति कारणमाह-'मज्झति ममबृहद्धत्तिः
जमाणस्स' ति ममेदं नगरजनपदादीति ममत्वमाचरतः, इदमुक्तं भवति-सत्यसति वा मत्सम्बन्धितया बासव॥४२॥ वस्तुनि तत्त्वतोऽभिष्वक एव सम्बन्धनसंयोगः, अनेन च काका कषायबहुलत्वे हेतुरुक्तः, कषायबहुलस्येति च
हैब्रुवता कषायद्वारेण सम्बन्धनसंयोगस्य कर्मवन्धहेतुत्वं ख्यापितं भवति, आह-मिथ्यात्वादयो हि बन्धहेतवः,
तत्कथं कषायसत्तामात्रेणैव तद्धेतुख्यापनम् ?, उच्यते, तेषामेव तत्र प्राधान्यात्, तत्प्राधान्यं च सत्तारतम्येनैव वन्धतारम्यात्, उक्तं च-"जहभागगया मत्ता रागाईणं तहा चउकम्मे" इति, बाहुल्यापेक्षं च शुक्ला बलाकेत्यादिवत् कषायवहुलस्य जीवस्येत्युच्यते, ततोऽकषायहेतुकत्वेऽप्यौपशमिकादिभावे नामादिसंयोगानामजीवविषयत्वेऽपि च शीतोष्णादिविरोधिसंयोगानां सम्बन्धनसंयोगत्वं न विरुध्यते । आह-एवमभिप्रेतानभिप्रेतसंयोगयोरपि तत्वतः सकषायजीवविषयत्वात् सम्बन्धनसंयोगत्वप्राप्तिः, सत्य, तथापीन्द्रियमनसोः साक्षात्तावुक्ती, अयं तु जीवस्येति न दोषः। अन्यस्त्वाह-संयुक्तकसंयोगोऽपि द्विष्ठत्वेनेतरेतरस्यैव तथेतरेतरसंयोगोऽपि खपरधर्मः संयुक्तत्वात् सर्ववस्तुनः संयुक्तस्यैवेति नानयोः प्रतिविशेषः, एवमेतत्, तथाऽप्येकस्कन्धताऽऽपन्नद्रव्यविषयः संयुक्तकसंयोगः, इतरेतर१ यतिभागगता मात्रा रागादीनां तथा चतुर्षु कर्मसु.
RECEKAR
दीप अनुक्रम
[१]
॥४२॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~87~