________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||१||
नियुक्ति: [६१]
(४३)
प्रत सूत्रांक
||१||
संयोगस्तु तथाऽन्यथा च, तत्र परमाणुसंयोगस्तथा प्रदेशादिसंयोगस्तु प्रायोऽन्यथेति युक्त एव तयोर्भेदः, एवं तह परमाणुसंयोगस्य संयुक्तकसंयोगादभेदोऽस्तूभयोरपि एकस्कन्धताऽऽपन्नद्रव्यविषयत्वात् , अयमपि न दोषः, यतो निष्पाद्यमानविषय इतरेतरसंयोगः, परिमण्डलादिसंस्थितद्रव्यस्य तेनैव (वि)निष्पाद्यमानत्वात् , संयुक्तसंयोगस्तु प्रायो निष्पन्नद्रव्यविषयः, निष्पन्नं हि मूलादिरूपेण वृक्षादिद्रव्यं कन्दादिना युज्यते, इत्यस्यनयोर्विशेष इति गाथार्थः । ॥६१॥ इत्थं सम्बन्धनसंयोगः खरूपत उक्तः, सम्प्रति तस्यैव फलतः प्ररूपणापूर्वकं विप्रमुक्तस्येति प्रकृतसूत्रपदं व्याख्यानयन् यथा ततो विषमुक्ता भवन्ति यच तेषां फलं तदाहसंबंधणसंजोगो संसाराओ अणुत्तरणवासो । तं छित्तु विप्पमुक्का माइपिइसुआइ ये हवंति ॥ ६॥
व्याख्या-'सम्बन्धनसंयोगः' उक्तरूपः, संसरन्त्यस्मिन् कर्मवशवर्तिजन्तव इति संसारस्तस्मात् , न विद्यते उत्तरणं -पारगमनमस्मिन् सतीत्यनुत्तरणः, स चासी वासश्च-अवस्थानमनुचरणवासः, अनुत्तरणवासहेतुत्वादायुघृतमित्यादिवदनुत्तरणवासः, अथवा 'अनुत्तरणवासोति आत्मनः पारतत्र्यहेतुतया पाशवत् पाशः, ततोऽनुत्तरणश्वासी पाशश्चर अनुत्तरणपाशः, उभयत्र च सापेक्षत्वेऽपि गमकत्वात् समासः, अनेन संसाराबस्थितिः पारवश्य वा सम्बन्धनसंयोगथार्थतः फलमुक्तं, 'तम्' एवंविधं सम्बन्धनसंयोगम् , अर्यादौदयिकभावविपर्य मात्रादिविषयं च 'छित्त्वा' द्विधा
१ टीका-साहू मुका तओ तेणं ।
दीप अनुक्रम
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~88~