________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१७],
मूलं [-] / गाथा ||१५-१७|| नियुक्ति: [३९१...]
(४३)
पापश्रम
णा०१७
प्रत
सूत्रांक
॥१५
-१७||
उत्तराध्य दुग्धं च-क्षीरं दधि च-तद्विकार एव दधिदुग्धे, सूत्रे च व्यत्ययः प्राग्वद्, विकृतिहेतुत्वाद्विकृती, उपलक्षण- बृहद्धत्तिः18/त्वाद् घृताद्यशेषविकृतिपरिग्रहः, 'आहारयति' अभ्यवहरति 'अभीक्ष्णं' वारं वारं, तथाविधपुष्टालम्बनं विनाऽपीति |
दभावः, अत एव 'अरतश्च' अप्रीतिमांश्च 'तपःकर्मणि' अनशनादौ, शेष प्राग्वत् ॥ अपि च-'अत्यंतमि यत्ति ॥४३५॥
'अस्तान्ते' अस्तमयपर्यन्ते, 'चः' पूरणे, उदयादारभ्येति गम्यते, 'सूर्ये भाखति आहारयत्यभीक्ष्णं, किमुक्तं भवति ?
प्रातरारभ्य सन्ध्यां यावत्पुनः पुनर्भुले, यदिवा 'अत्यंतमयंमि यत्ति अस्तमयति सूर्ये आहारयति, तिष्ठति तु किमुटूच्यते ? इति भावः, किमेकदैवेत्साह-'अभीक्ष्णं' पुनः पुनः, दिने दिने इत्युक्तं भवति, यदि चासौ केनचिगीतार्थ
साधुना चोद्यते, यथा-आयुष्मन् ! किमेवं त्वयाऽऽहारतत्परेणैव स्थीयते !, दुर्लभा खल्वियं मनुजत्वादिचतुरङ्गसामग्री, तत एनामवाप्य तपस्येयोद्यन्तुमुचितमिति, ततः किमित्याह-'चोइओ पडिचोएइत्ति चोदितः सन् प्रतिचोदयति यथा कुशलस्त्वमुपदेशकर्मणि न तु खयमनुष्ठाने, अन्यथा किमेवमवगच्छन्नपि भवान्न विकृष्टं तपोऽनुतिति ?, शेषं तथैव । 'आचार्यपरित्यागी' ते हि तपःकर्मणि विपीदन्तमुद्यमयन्ति, आनीतमपि चान्नादि वालग्लानादिभ्यो दापयन्त्यतोऽतीवाहारलौल्यात्तत्परित्यजनशीलः परान्-अन्यान् पापण्डान्-सौगतप्रभृतीन् 'मृद्वी शय्या प्रातरुत्थाय पेया' इत्यादिकदभिप्रायतोऽत्यन्तमाहारप्रसक्तांस्तत एव हेतोः सेवते-तथा तथाऽपसर्पतीति परपापण्ड|सेवकः, तथा च खेच्छाप्रवृत्ततया 'गाणंगणिए'त्ति गणागणं षण्मासाभ्यन्तर एव संक्रामतीति गाणहणिक इत्या
1962SSCR4
दीप अनुक्रम [५५३-५५५]
॥४३५।।
For PF
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~869~