________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१७],
मूलं [-1 /गाथा ||६-१४|| नियुक्ति: [३९१...]
(४३)
प्रत सूत्रांक ||६-१४||
च-'अत्तपण्णह'त्ति तत्र च आत्तां-सिद्धान्तादिश्रवणतो गृहीतामाता या इहपरलोकयोः सद्बोधरूपतया हिता प्रज्ञाम्-आत्मनोऽन्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो हन्ति यः स आत्तप्रज्ञाहा आसप्रज्ञाहा था, 'बुग्गहे'त्ति व्युद्हे दण्डादिधातजनिते विरोधे 'कलहे' तस्मिन्नेव वाचिके 'रक्तः' अभिष्वक्तः, शेपं प्राग्वत् ॥ अपरं च अस्थिरासनः, कुकुचः कुकुचो वा द्वयमपि पूर्ववत् , 'यत्र तत्र' इति संसक्तसरजस्कादावपीत्यर्थः 'निषीदति' उपविशति 'आसने पीठादी 'अनायुक्तः' अनुपयुक्तः सन् , शेषं प्राग्वत् ॥ तथा सह रजसा वर्तते इति सरजस्को तथाविधौ पादौ यस्य स तथा 'स्वपिति' शेते, किमुक्तं भवति?-संयमविराधनां प्रत्यभीरुतया पादावप्रमृज्यैव शेते, तथा शय्यां' वसतिन प्रतिलेखयति, उपलक्षणत्वान्न च प्रमार्जयति, 'संस्तारके' फलककम्बलादी, मुप्त इति शेषः, 'अनायुक्तः' "कुकुडिपायपसारण आयामेउं पुणोवि आउंटे" इत्याद्यागमार्थानुपयुक्तः, अन्यत्तथैवेति सूत्रनवकार्थः । इदानीं तपआचारातिक्रमतः पापश्रमणमाह
दुद्धदहीविगईओ, आहारेइ अभिक्खणं । अरए अ तवोकम्मे, पावसमणित्ति धुचई ॥ १५ ॥ अत्यंतंमि य सूरंमि, आहारेइ अभिक्खणं । चोहओ पहिचोएइ, पावसमणित्ति वुचई ॥ १६ ॥ आयरियपरिचाई, परपासंडसेवए । गाणंगणिए दुभूए, पावसमणित्ति वुचई ॥ १७ ॥ । १ कुकुटीवत्पादप्रसारणं आयम्य (विस्तार्य) पुनरपि आकुश्चयेत् ।
दीप अनुक्रम [५४४-५५२]]
JAINEducatan intimational
For PAHATEEPIVanupontv
arencitinama
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~868~