________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१६],
मूलं [१०] / गाथा ||१४-१५|| नियुक्ति : [३८५...]
(४३)
RKAR
प्रत
सूत्रांक
॥१४
-१५||
का सन्तापोपततानां जन्तूनां निर्वृत्तिहेतुतयाऽभिलषितफलप्रदानतश्च धर्मारामस्तस्मिन् 'चरेत्' गच्छेत् प्रवर्ततेतिया|वत्, यद्वा धर्मे आ-समन्ताद्रमत इति धर्मारामः 'संचरेत्' संयमाध्वनि यायाद् भिक्षुः प्राग्वत् 'धृतिमान्' धृतिःचित्तखास्थ्यं तद्वान् , स चैवं धर्मसारथि:-"ठिओ उ ठावए परं" इति वचनादन्येषामपि धर्म प्रवर्चयिता, ततोऽन्यानपि धर्मे व्यवस्थितानुपलभ्य विशेषतो धर्मारामे रतः-आसक्तिमान् धर्मारामरतः, तथा च 'दान्तः' उपशान्तो ब्रह्मचर्ये समाहितः-समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रद्वयार्थः ॥ ब्रह्मचर्यविशुद्धयर्थोऽयं सर्वोऽप्युपक्रम इति तन्माहात्म्यमाह| देवदाणवगंधब्वा, जक्खरक्खसकिन्नरा । भयारिं नमसंति, दुष्करं जे करंति तं ॥ १६ ॥
देवा:-ज्योतिष्कवैमानिकाः दानवाः-भुवनपतयः गन्धर्वयक्षराक्षसकिन्नराः-प्यन्तरविशेषाः समासः सुकर एव, उपलक्षणं चैतद्भूतपिशाचमहोरगकिंपुरुषाणाम् , एते सर्वेऽपि 'ब्रह्मचारिणं' ब्रह्मचर्यवन्तं यतिमिति शेषः, 'नमस्यन्ति' नमस्कुर्वन्ति 'दुष्करं' कातरजनदुरनुचरं 'जे' इति यः 'करोति' अनुतिष्ठति 'तदिति प्रक्रमाब्रह्मचर्यमिति सूत्रार्थः ॥ सम्प्रति सकलाध्ययनार्थोपसंहारमाह
एस धम्मे धुवे नियए, सासए जिणदेसिए। सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहापरे ॥ १७॥ त्ति बेमि ॥
दीप अनुक्रम [५३५-५३६]
*
For PATREPvanumony
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~858~