________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१५],
मूलं [-] / गाथा ||९|| नियुक्ति: [३७९...]
(४३)
***
*5
प्रत
सुत्रांक
MAR
%2
||९||
यदनन्तरमुक्तं परिनाय'त्ति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिजया च प्रत्याख्याय 'परिव्रजेत्' सर्वप्रकारं संयमाध्वनि यायाधः स भिक्षुरिति सूत्रार्थः ॥ अपरं च
खत्तियगणउग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो।
नो तेसि वयह सिलोगपूअंतं परिन्नाय परिग्बएस भिक्ख ॥९॥ क्षत्रियाः-हैहेयाद्यन्वयजा गणा:-मल्लादिसमूहाः उग्राः-आरक्षकादयः राजपुत्राः-नृपसुताः, एपो द्वन्द्वः, 'माहनभोगिकाः' तत्र माहना ब्राह्मणास्तथा भोगेन-विशिष्टनेपथ्यादिना चरन्ति भोगिका:-नृपतिमान्याः प्रधानपुरुषाः, 'विविधाश्च' नानाप्रकाराः 'शिल्पिनः' स्थपतिप्रभृतयः, पठन्ति च-सिप्पिणोऽपणे तत्र चान्ये इति शिल्पिविशेषणमुभयत्र च य इति शेषः, 'नो' नैव तेषां क्षत्रियादीनां 'बदति' प्रतिपादयति, के ?-श्लोकपूजे श्लोक-श्लाघां यथते शोभना इति, पूजां च-यथैतान् पूजयतेति, उभयत्र पापानुमत्यादिमहादोषसम्भवात् , किंतु 'तदिति श्लोकपूजादिकं द्विविधयाऽपि परिजया परिज्ञाय परिबजेद्यः स भिक्षुरिति सूत्रार्थः ॥ अनेन वनीपकत्वस्य परिहार उक्तः, साम्प्रतं संस्तवपरिहारमाह
गिहिणो जे पव्वइएण दिहा, अप्पब्बईएण व संथुया हविजा। तेसिं इहलोयफलट्टयाए, जो संथवं न करेइ स भिक्खू ॥१०॥
दीप अनुक्रम [५०३]
0 %***
*
RORMSRL
**
AIMEducatantntarnational
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~834~