________________
आगम
(४३)
प्रत
सूत्रांक
||३७
-४०||
दीप
अनुक्रम
[४७८
-४८१]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा || ३७-४०||
अध्ययनं [१४],
Jain Education intimational
॥ ४०८ ॥
उत्तराध्य. ॐ नृप ! न स 'भवति प्रशंसितः' वाषितो विद्वद्भिरिति शेषः स्यादेतत् कथमहं वान्ताशीत्यत आह-त्राह्मणेन * 'परित्यक्तं' परिहतं 'धनं' द्रव्यम् 'आदातुं' गृहीतुमिच्छसि परिहृतधनं हि गृहीतोज्झितत्वाद्वान्तमिव तत्तदाबृहद्वृत्तिः दातुमिच्छंस्त्वमपि वान्ताशीव न चेदमुचितं भवादृशामित्यभिप्रायः । अथवा काक्का नीयते - राजनू ! वान्ताशी यः स प्रशस्यो न भवत्यतो ब्राह्मणेन परित्यक्तं धनं त्वमादातुमिच्छसि नैवेद्भवत उचितं यतस्त्वमप्येवं वान्ताशितयाऽसाध्य एव भविष्यसीति काक्कर्थः ॥ किं ? - 'सर्व' निरवशेषं 'जगद्' भुवनं भवेदिति सम्बन्धः, 'यदी त्यस्यायमर्थः- न संभवत्येवैतत् कथञ्चित्सम्भवे वा 'तुहन्ति तब सर्वे वाऽपि धनं रजतरूप्यादिद्रव्यं भवेत् यदि तवेतीहापि योज्यते, तदा सर्वमपि 'ते' तब 'अपर्याप्तम्' अशक्तम्, इच्छा परिपूर्ति प्रतीति शेषः, आकाश समत्वेन तस्या अपर्यवसितत्वात् तथा नैव 'त्राणाय' जरामरणाद्यापदपनोदाय 'तदिति सर्वे जगद्धनं वा भवति ते, इह च पुनः पुनः सर्वशब्दस्य युष्मदश्योपादानं भिन्नवाक्यत्वादपुनरुक्तमिति भावनीयं पूर्वेण गर्हितत्वमनेन चानुपकारितां पुरोहितधनाद्यग्रहणहेतुमादर्श्य सम्प्रत्यनित्यतां तद्धेतुमाह- 'मरिष्यसि प्राणांस्त्यक्ष्यसि 'राजन्!" नृप ! 'यदा तदा वा' यस्मिंस्तस्मिन् वा कालेऽवश्यमेव मर्त्तव्यं, 'जातस्य हि ध्रुवो मृत्यु' रिति, उक्तं हि — कश्चितावस्यया दृष्टः श्रुतो वा शङ्कितोऽपि वा । क्षितौ वा यदिवा स्वर्गे, यो जातो न मरिष्यति ॥ १॥" तत्रापि च कदाचिदभिलपितवस्त्वादायैव मरिष्यतीत्यत आह- 'मनोरमान्' चित्ताहादकान् 'कामगुणान्' उक्तरूपान् 'प्रहाय' प्रकर्षेण १
For Prata Use Only
निर्युक्तिः [३७३...]
~815~
इषुकारीय
मध्ययनं.
१४
॥४०८||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः