________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४],
मूलं [-]/ गाथा ||१८|| नियुक्ति : [३७३...]
(४३)
प्रत सूत्रांक
||१८||
"पृथिव्यपस्तेजोवायुरिति तत्त्वानि, एतेभ्यश्चैतन्यं, मद्यानेभ्यो मदशक्तिवत्", तथा 'नासा'त्ति नश्यन्ति-अनप-| दलवत्प्रलयमुपयान्ति 'णावचिठे'त्ति न पुनः अवतिष्ठन्ते-शरीरनाशे सति न क्षणमप्यवस्थितिभाजो भवन्ति, यद्वा शरीरे सत्यप्यमी सत्या नश्यन्ति, नावतिष्ठन्ते, जलवुदुदवत् , उक्तं हि-"जलबुद्धदवज्जीवाः" अत्र च प्रत्यक्षतोडनुपलम्भ एव प्रमाणं, न बसौ शरीरे शरीरव्यतिरिक्तो वा भवान्तरप्राप्तौ प्रत्यक्षत उपलभ्यत इति नास्ति, शशविपाणवदिति भाव इति सूत्रार्थः ।। कुमारकावाहतुः
नो इंदियग्गिज्झु अमुत्तभावा, अमुत्तभावा चिय होइ निच्चो।
अज्झत्यहेर्ड निययऽस्स बंधो, संसारहेउं च वयंति बंधं ॥ १९ ॥ 'नो' इति प्रतिषेधे इन्द्रियैः-श्रोत्रादिभियः-संवेद्य इन्द्रियग्राह्यः, सत्त्व इति प्रक्रमः, असत्त्यादेवायमिन्द्रियाग्राह्य इत्याशङ्कयाह-'अमूर्तभावात्' इन्द्रियग्राह्यरूपाद्यभावात् , अयमाशयः-यदिन्द्रियग्राह्यं सन्नोपलभ्यते तदसदिति निश्चीयते, यथा प्रदेशविशेषे घटो, यत्तु तद्बाह्यमेव न भवति न तस्यानुपलम्भेऽप्यभावनिश्चयः, पिशाचादिवत् , तद्विषयानुपलम्भस्य संशयहेतुत्वात् , न च साधकबाधकप्रमाणाभावात् संशयविषयतैवास्त्विति वाच्यं, तत्साधकस्यानुमानस्य सद्भावात् , तथाहि-अस्त्यात्मा अहं पश्यामि जिघ्रामीत्याद्यनुगतप्रत्ययान्यथानुपपत्तेः, आत्माभावे हीन्द्रियाण्येव द्रष्टुणि स्युः, तेषु च परस्परं विभिन्नेष्यहं पश्यामि जिघ्रामीत्यादिरनुगतोऽहमितिप्रत्ययोऽनेकेष्विव ।
दीप अनुक्रम [४५९]
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~802~