________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३],
मूलं [-]/ गाथा ||३०|| नियुक्ति: [३५५...]
(४३)
प्रत सूत्रांक ||३०||
नागो जहा पंकजलावसन्नो, दट्टुं धलं नाभिसमेइ तीरं।
एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुब्वयामो ॥ ३०॥ 'नाग' हस्ती 'यथेति दृष्टान्तोपदर्शकः पङ्कप्रधानं जलं पङ्कजलं यत्कलमुच्यते तत्रावसन्नो-निमग्नः पङ्कजलावसन्नः सन् 'रष्टा' अवलोक्य 'स्थल' जलविकलभूतलं 'न' नैव 'अभिसमेति' प्राप्नोति 'तीर' पारम्, अपेर्गम्यमानत्वात्तीरमप्यास्तां स्थलमिति भावः, इत्येवंविधनागवत् वयमित्यात्मनिर्देशे 'कामगुणेषु' उक्तरूपेषु 'गृद्धाः मूञ्छिता न 'भिक्षोः' साधोः 'मार्ग' पन्धानं सदाचारलक्षणम् 'अनुव्रजामः' अनुसरामः । अमी हि पङ्कजलोपमाः कामभोगाः, ततस्तत्परतवतया न तत्परित्यागतो निरपायतया स्थलमिव मुनिमार्गमवगच्छन्तोऽपि पङ्कजलावमनगजवद्वयमनुगन्तुं शक्नुम इति सूत्रार्थः ॥ पुनरनित्यतादर्शनाय मुनिराह
अचेह कालो तूरंति राइओ, न यावि भोगा पुरिसाण निया।
उविच भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ ३१ ॥ 'अत्येति' अतिक्रामति कालः यथाऽऽयुःकालः, किमित्येवमुच्यते ?, अत आह-'वरन्ति' शीघ्रं गच्छन्ति | रात्रयः' रजन्यः दिनोपलक्षणं चैतत . ततोऽनेन जीवितव्यस्थानित्यवमुक्तम् , उक्तं हि-"क्षणयामदिवसमासच्छसाटन गच्छन्ति जीवितदलानि । इति विद्वानपि कथमिह गच्छसि निद्रायर्श रात्री १ ॥१॥" अथवा 'अपेति' अतीय।
दीप अनुक्रम [४३६]
Forum
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~780~