________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१३],
मूलं [-] / गाथा ||१०-१२|| नियुक्ति: [३५५...]
(४३)
प्रत
सूत्रांक
-१२||
पुण्यफलेन-शुभकर्मफलेनोपपेतः-अन्वितः स पुण्यफलोपपेतः इति ॥ यथा त्वं 'जानासि' अवधारयसि 'संभूत ! पूर्वजन्मनि संभूताभिधान ! 'महानुभाग बृहन्माहात्म्यं 'महर्द्धिक' सातिशयविभूतियुक्तम् अत एव पुण्यफलोपेतं चित्रमपि 'जानीहि' अवबुयख तथैव' अविशिष्टमेव 'राजन् ! नृप!, किमित्येवमत आह-ऋद्धिः-सम्पत् द्युतिःदीप्तिस्तस्यापीति-जन्मान्तरनामतश्चित्राभिधानस्य, ममापीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात्प्रभूता-बद्धीत्यर्थः, यद्वाऽऽत्मा मम पुण्यफलोपेत इति, अनेन चित्र एवात्मानं निर्दिशति, तथा जानीहि संभूत इत्यादौ
आत्मेत्यनुवर्तते, अर्थवशाच विभक्तिपरिणामः, ततश्चैवं योज्यते-हे संभूत ! यथा त्वमात्मानं महानुभागादिविहै शेषणविशिष्टं जानासि तथा चित्रमपि जानीहि, चित्रनाम्रो ममापि गृहस्थभावे एवंविधत्यादेवेति भावः, शेष
प्राग्वत् ॥ यदि तवाप्येवंविधा समृद्धिरासीत् तत्किमिति प्रत्रजित इत्याह-महान्-अपरिमितोऽनन्तद्रव्यपर्या
यात्मकतयाऽर्थः-अभिधेयं यस्य तन्महाथै रूपं-खरूपं न तु चक्षुरायो गुणः, ततो महाथै रूपं यस्याः सा तथा, & महतो वाऽर्थान-जीवादितत्त्वरूपान् रूपयति-दर्शयतीति महार्थरूपा, 'वयणप्पभूयति वचनेन अप्रभूता अल्पभूता वा-अल्पत्वं प्राप्ता वचनाल्पभूता वचनात्प्रभूता वा स्तोकाक्षरेतियावत् , केयमीरशीत्याहू-गीयत इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अन्विति-तीर्थकृद्गणधरादिभ्यः पश्चाद्गीता अनुगीता, कोऽर्थः ?-तीर्थकरादिभ्यः श्रुत्वा प्रतिपादिता स्थविरैरिति शेषः, अनुलोमं वा गीताऽनुगीता, अनेन श्रोत्रनुकूलैच देशना क्रियत|
दीप अनुक्रम [४१६-४१८]
AIMEducatoninternational
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 768~