________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-] / गाथा ||६|| नियुक्ति: [३२७...]
(४३)
-HS
R
प्रत सूत्रांक
CHECCCCCC
||६||
नासः, अवमानि-असाराणि लघुत्वजीर्णत्वादिना चेलानि-वस्त्राण्यस्येत्यवमचेलकः, पांशुना-रजसा पिशाचवडूतो-जातः पांशुपिशाचभूतः, गमकत्वात्समासः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनखरोमा पुनश्च पांशुभिः समविध्वस्त इष्टः, ततः सोऽपि निष्परिकर्मतया रजोदिग्धदेहतया चैवमुच्यते, 'संकरे ति सङ्करः, स चेह प्रस्तावात्तृणभस्मगोमयाजारादिमीलक उक्करुडिकेतियावत् तत्र दुष्यं-वस्त्रं सङ्करदुष्यं, तत्र हि यदत्यन्तनिकृष्टं निरुपयोगि तल्लोकैरुत्सृज्यते, ततस्तत्प्रायमन्यदपि तथोक्तं, यद्वा उज्झितधर्मकमेवासौ गृह्णातीत्येवमभिधानं, 'परिहरिय'त्ति परिवृत्त्य, निक्षिप्येत्यर्थः, क ?-'कण्ठे' गले, स ह्यनिक्षिप्तोपकरण इति स्वमुपधिमुपादायैव भ्राम्यति, अत्र कण्ठैकपार्श्वः कण्ठशब्द इति कण्ठे परिवृत्त्येत्युच्यत इति सूत्रद्वयार्थः । इत्थं दूरादागच्छन्नुक्तः, सन्निकृष्टं चैनं किमूचुरित्याह-12
कपरे तुम इय अदंसणिज्जे ?, काए व आसा इहमागओऽसि?।
ओमचेलगा पंसुपिसायभूया, गच्छ क्खलाहि किमिहं ठिओऽसि ? ॥७॥ कतरस्त्वं, पाठान्तरश्च-कोरे त्वम् , अधिक्षेपे रेशब्दः 'इती' त्येवमदर्शनीयो-द्रष्टुमनहः, 'कया वा' किंरूपया वा ?, 'आसा इहमागओऽसित्ति 'अचां सन्धिलोपौ बहुल'मितिवचनादेकारलोपो, मकारश्चागमिकः, तत आशयावाछया 'इह' अस्मिन्यज्ञपट्टके आगतः-प्राप्तोऽसि-भवसि, अवमचेलकः पांसुपिशाचभूत इति च प्राग्वत्, पुनर-1 नयोरुपादानमत्यन्ताधिक्षेपदर्शनार्थ, गच्छ-प्रत्रज, प्रक्रमादितो यज्ञवाटकात्, 'खलाहित्ति देशीपदमपसरेत्यस्यार्थे ।
दीप अनुक्रम [३६५]
For
Free
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~716~