________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-]/ गाथा ||३|| नियुक्ति: [३२७...]
(४३)
*****
प्रत सूत्रांक
आहिताभ्यादित्वाच गुप्तशब्दस्य परनिपातः, एवं वारगुप्तो-निरुद्धवाक्प्रसरः, कायगुसः असत्कायक्रिया विकलो, जितेन्द्रियः प्राग्यत्, पुनरुपादानमस्य कादाचित्कत्वनिराकरणार्थमतिशयख्यापनार्थं वा, 'भिक्षार्थ' भिक्षानिमित्तं, न तु निष्प्रयोजनमेय, निष्प्रयोजनगमनस्यागमे निषिद्धत्वात् , 'बंभइमि'त्ति ब्रह्मणां-बामणानामिज्या-यजन यस्मिन् सोऽयं ब्रोज्यस्तस्मिन्, 'जण्णवार्ड'ति यज्ञवाटे यज्ञपाटे वा 'उपस्थितः' प्राप्त इति सूत्रार्थः ॥ तं च तत्रा|ऽऽयान्तमवलोक्य तत्रत्यलोका यदकुवस्तदाह
तं पासिऊणमिळतं, तवेण परिसोसियं । पंतोवहिउवगरणं, उवहसंति अणारिया ॥४॥ 'त'मिति बलनामानं मुनि 'पासिऊर्णति दृष्ट्वा-निरीक्ष्य 'एजंत'न्ति आयान्तमागच्छन्तं तपसा-पठाष्टमादिरूपेण परि-समन्ताच्छोषितम्-अपचितीकृतमांसशोणितं कृशीकृतमितियावत् परिशोषितं, तथा प्रान्तं-जीर्णमलिनत्वादिभिरसारमुपधिः-वर्षाकल्पादिः स एव च उपकरणं-धर्मशरीरोपष्टम्भहेतुरखेति प्रान्तोपध्युपकरणस्तं, यद्वोपधिः स एवोपकरणम्-औपग्रहिकं, द्वन्द्वगर्भश्च बहुव्रीहिः, 'उवहसंति'त्ति उपहसन्ति आर्याः-उक्तनिरुक्ता न तथा
अनार्याः, यद्वा अनार्या-म्लेच्छाः, ततश्च साधुनिन्दादिना अनार्या इव अनार्या इति सूत्रार्थः ॥ कथं पुनरनार्याः ।, 13 कथं चोपहसितयन्तस्ते ? इत्याह
जाइमयं पडिथद्धा, हिंसगा अजिइंदिया। अवंभचारिणो वाला, इमं वयणमच्यची ॥५॥
***
||३||
दीप अनुक्रम [३६२]
**
४
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~714~