________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-] / गाथा ||१|| नियुक्ति: [३२१-३२७]
(४३)
प्रत
सुत्रांक
||१||
काऊणं पविसंती सघरं पुरोहिएण राया भणिओ-एसा रिसिभज्जा बंभणाणं कप्पइत्ति, दिण्णा तस्सेव । सो य जणे दिक्खिजिउकामो सा अण्णेण लद्धा, सावि जण्णपत्तित्तिकाऊण दिक्खिया । इत्युक्तः सम्प्रदायोऽवसितश्च नामनिप्पन्न निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति सम्भवत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्__सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएस बलो नाम, आसि भिक्खू जिइंदिओ॥१॥
श्वपाका:-चाण्डालास्तेषां कुलम्-अन्वयस्तस्मिन् सम्भूतः-समुत्पन्नः श्वपाककुलसम्भूतः, तक्किं तत्कुलोत्पत्त्यनुरूप एवायमुत नेत्याह-गुणेषूत्तराः-प्रधाना गुणोत्तराः-ज्ञानादयः तान् धारयति गुणोत्तरधरः, पठन्ति च-'अणुत्तरघरे'त्ति, तत्र न विद्यते उत्तरम्-अन्यत्प्रधानमेषामित्यनुत्तराः, ते च प्रक्रमात्प्रकर्षप्राप्ता ज्ञानादय एव गुणास्तान् धारयत्यनुत्तरघरो, यद्वा अनुत्तरान् गुणान धारयतीत्यनुत्तरधर इति मयूरध्यसकादिषु द्रष्टव्यो, मुणति-प्रतिजानीते सर्वविरतिमिति मुणिः, श्वपाककुलोत्पन्नोऽपि कदाचित्सवासादिनाऽन्यथैव प्रतीतः स्यादत आह-हरिकेशः सर्वत्र हरिकेशतवैव प्रतीतो बलो नाम-बलाभिधानः आसीद्-अभूत् , तस्य च मुनित्वं प्रतिज्ञामात्रेणापि स्यादत आह
१ कृत्वा प्रविशन्ती खगृह पुरोहितेन राजा भणित:-एषा ऋषिभार्वा ब्राह्मणानां कल्पते इति, दत्ता तस्मायेव । स च यज्ञे दीक्षयितुकामः साऽन्ये (ने)न लब्धा, साऽपि यज्ञपनीतिकृत्वा दीक्षिता।।
दीप अनुक्रम
[३६०
For PF
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~712~