________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-]/ गाथा ||३२|| नियुक्ति: [३१८-३२०]
(४३)
&
प्रत सूत्रांक ||३२||
अथ द्वादशं हरिकेशीयमध्ययनम् । व्याख्यातमेकादशमध्ययनमधुना द्वादशमारभ्यते,अस्य चायमभिसम्बन्धः-अनन्तराध्ययने बहुश्रुतपूजोक्ता,इह तु बहुश्रुतेनापि तपसि यत्नो विधेय इति ख्यापनार्थ तपःसमृद्धिरुपवर्ण्यत इत्यनेन सम्बन्धेनायातस्थास्याध्ययनस्य चतुरनुयोगद्वारचर्चा प्राग्वत् तावद्यावन्नामनिष्पन्ननिक्षेपेऽस्य हरिकेशीयमिति नाम, अतो हरिकेशनिक्षेपमाह नियुक्तिकत्
___ नाम ठवणादविए० ॥ ३१८ ॥ जाणयसरीरभविए० ॥ ३१९ ॥ हरिएसनामगोअं वेअंतो भावओ अ हरिएसो। तत्तो समुट्रियमिणं हरिए-सिजति अज्झयणं ॥३२०॥
हरिकेशे निक्षेपश्चतुर्विधो नामादिः, तत्र नामस्थापने क्षुण्णे, द्विविधो भवति 'द्रव्ये' द्रव्यविषयः-आगमनोआग-1 मतश्च,तत्र आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतश्च स त्रिविधो-ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तश्थ, स पुनः त्रिविधःएकविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, हरिकेशनामगोत्रं वेदयन् भावतस्तु हरिकेश उच्यते, ततोऽभिधेयभू. तात् समुत्थितमिदं हरिकेशीयं इत्यध्ययनमुच्यते इति शेषः, इति गाथात्रयार्थः ॥ सम्प्रति हरिकेशवक्तव्यतामाह नियुक्तिकृत् पुवभवे संखस्स उ जुवरन्नो अंतिअं तु पञ्चज्जा । जाईमयं तु काउं हरिएसकुलंमि आयाओ॥३२१॥
%
%
दीप अनुक्रम [३५९]]
%
*
For
F
un
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः
अथ अध्ययनं - १२ "हरिकेशिय" आरभ्यते
~706~