________________
आगम
(४३)
प्रत
सूत्रांक
|१४||
दीप
अनुक्रम
[३४१]
Jan Educatio
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [११],
मूलं [ - ] / गाथा ||१४||
निर्युक्ति: [३१७]
आचार्यादेरभिमताहारादिभिरनुकूलकारी, एवं 'प्रियवाद्यपि' आचार्याभिप्रायानुवर्तितयैव वक्ता, तथा चास्य को गुण इत्याह- 'स' एवंगुणविशिष्टः 'शिक्षां' शास्त्रार्थग्रहणादिरूपां 'लब्धुम' अवाम् 'अर्हति' योग्यो भवतीति, अनेनैव अविनीतस्त्येतद्विपरीतः शिक्षां लब्धुं नार्हतीत्यर्थादुक्तं भवति, तथा च यः शिक्षां लभते स बहुश्रुतः इतर | स्त्वबहुश्रुत इति भाव इति सूत्रार्थः । एवं च सविपक्षं बहुश्रुतं प्रपञ्चतोऽभिधाय प्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारं तस्यैव स्तवद्वारेणाह—
|
जहा संखंमि पयं निहियं, दुहओवि विराय । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ।। १५ ।। व्याख्या- 'यथा' इति दृष्टान्तोपन्यासे 'शङ्खे' जलजे 'पयो' दुग्धं 'निहितं' न्यस्तं' दुहओवि'त्ति द्वाभ्यां प्रका | राभ्यां द्विधा, न शुद्धतादिना स्वसम्वन्धिगुणलक्षणेनैकेनैव प्रकारेण, किन्तु स्वसम्बन्ध्याश्रय सम्वन्धिगुणद्वय लक्षणेन प्रकारद्वयेनापीत्यपिशब्दार्थः, 'विराजते' शोभते, तत्र हि न तत् कलुषीभवति, न चाम्लतां भजते, नापि च परिस्रबति, 'एवम् अनेन प्रकारेण बहुश्रुते 'भिक्खु'त्ति आर्षत्वाद् भिक्षी- तपखिनि, 'धर्मः' यतिधर्मः 'कीर्तिः' श्लाघा 'तथा' इति धर्मकीर्त्तिवत् 'श्रुतम्' आगमो, विराजत इति सम्बन्धः, किमुक्तं भवति ? यद्यपि धर्मकीर्तिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभाभाञ्जि तथापि मिथ्यात्वादिका लुप्यविगमतो निर्मलतादिगुणेन शङ्ख इव पयो बहुश्रुते स्थितान्याश्रयगुणेन विशेषतः शोभन्ते, तान्यपि हि न तत्र मालिन्यम् अन्यथाभावं हानिं वा कदाचन प्रतिपद्य
For Para Prata Use Only
rancibrary and
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
~694~