________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०],
मूलं [-] / गाथा ||३१|| नियुक्ति: [३०९...]
(४३)
प्रत सूत्रांक ||३१||
पन्था-मार्यमाणत्वात् मार्गो-मोक्षस्तस्य 'देसिय'त्ति सूत्रत्वाद्देशको मार्गदेशको दृश्यते, ततस्तस्यापि तत्प्राकन मामपश्यद्भिरपि भाविभव्यैनिश्चेतव्यं, यतश्चैवं भाविभव्यानामुपदिश्यते अतः सम्प्रतीत्यादि प्राग्वत् , द्विविधाडवि तावदित्थं व्याख्या सूचकत्वात् सूत्रस्येति गाथार्थः ।। अत्रैवार्थे पुनरुपदिशन्नाह
अवसोहिय कंटगापह, ओइन्नोऽसि पहं महालयं गच्छसि मम्गं वि सोहिया, समपं०॥ ३२॥ व्याख्या-'अवसोहियत्ति अवशोध्य-अपसाये पृथकृत्य परिहत्येतियावत् , कम् ?-'कंटयापहंति आकारोडलाक्षणिकः, कण्टकाश्च द्रव्यतो बब्बूलकण्टकादयः भावतस्तु चरकादिकुश्रुतयस्तैराकुलः पन्थाः कण्टकपथस्तं, तब अवतीर्णोऽसि अनुप्रविष्टो भवसि 'पहंति पन्थानं 'महालयंति महान्तं महतां वाऽऽलयः-आश्रयो महाया. स च द्रव्यतो राजमार्गः भावतस्तु महद्भिस्तीर्थकरादिभिरप्याश्रितः सम्यग्दर्शनादिमुक्तिमार्गसं, कश्चिदवतीर्ण ऽपि मार्ग न गच्छेत् अत आह-'गच्छसि'-यासि मार्ग, न पुनरवस्थित एवासि, सम्यग्दर्शनायनुपालनेन शक्ति मार्गगमनप्रवृत्तत्वाद्भवतः, तत्राप्यनिश्चयेऽपायप्राप्तिरेव स्यात् इत्याह-'विशोध्य' इति विनिश्चित्य, तदेवं वना सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ एवं च पूर्वेण दर्शनविशुद्धिमनेन च मार्गप्रतिपत्तिमभिधाय तत्प्रतिपत्तावपि कस्यचिदनुतापसम्भव इति तन्निराचिकीर्षयाऽऽह
अवले जह भारवाहए, मा मग्गे विसमेऽवगाहिया । पच्छा पच्छाणुतावए, समय० ॥ ३३ ॥
दीप अनुक्रम [३२१]
For
Free
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~678~