________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [९],
मूलं [-] / गाथा ||५२-५३|| नियुक्ति: [२७९...]
(४३)
प्रत
सूत्रांक
||५२-५३||
कामाः-मनोज्ञशब्दादयः, यथा हि शल्यमन्तश्चल द्विविधवाधाविधायि तथैतेऽपि, तत्त्वत एषामपि सदा वाधाविधायित्वात् , तथा वेवेष्टि-व्याप्नोतीति विषं-तालपुटादि, विपमिव विषं कामाः, यथैव हि तदुपभुज्यमानं मधुरमिसापातसुन्दरमिवाऽऽभाति, अथ च परिणतावतिदारुणमेवमेतेऽपि कामाः, तथा कामाः आस्यो-दंष्ट्रास्तासु विषमस्येत्याशीविषस्तदुपमाः, यथा बयमहरवलोक्यमानः स्फुरन्मणिफणाभूपित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति तथैतेऽपि कामाः, किंच-कामान् 'प्रार्थयमाना' अभिलपन्तोऽपिशब्दस्य लुप्तनिर्दिष्टत्वात् प्रार्थयमाना अपि 'अकामा' इष्यमाणकामाभावात् 'यान्ति'गच्छन्ति 'दुर्गति' दुष्टां नरकादिगति, तदनेन न केवलं शल्यादिवदनुभूयमाना एवामी दोपकारिणः, किन्तु प्रार्थ्यमाना अपीत्युक्तं भवति । तथा च-'यः सद्विवेको नासो प्राप्तमप्राप्तकालया' इत्यादी सद्विवेकत्वमनैकान्तिको हेतुः, न हायमेकान्तः यथा प्राप्तमप्राप्तार्थे न परिहियते, प्राप्तस्याप्यपायहेतोः तदुच्छेदकाप्राप्त्यर्थ विवेकिभिः परिहियमाणत्वाद् , अनभ्युपगतोपालम्भश्चार्य, मुमुक्षूणां कचिदा-101 कावाया एवासम्भवात्, उक्तं हि-'मोक्षे भये च सर्वत्र, निःस्पृहो मुनिसत्तमः' इति सूत्रार्थः ॥ कथं पुनः कामान् ? प्रार्थयमाना दुर्गतिं यान्ति ?, अत आह
अहे चयह कोहेणं, माणेणं अहमा गई । माया गइपडिग्चाओ, लोहाओ दुहओ भयं ॥५४॥ व्याख्या-'अधों' नरकगतौ 'प्रजति' गच्छति 'क्रोधेन' कोपेन, 'मानेन' अहङ्कारेण 'अधमा' नीचा गतिः, भव-4
दीप अनुक्रम [२८०-२८१]
Lk--
+
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~634~