SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९], मूलं [-1 / गाथा ||५०-५१|| नियुक्ति: [२७९...] (४३) 3 प्रत उत्तराध्यबृहद्वृत्तिः ॥३१७॥ ज्याध्य. %A9- सूत्रांक % ||४७-४९|| अच्छेरगमभुदए, भोए जहितु पत्थिवा ! । असंते कामे पत्थंसि, संकप्पेण विहम्मसि ॥५१॥ व्याख्या-'अच्छेरगति आश्चर्य वर्तते, यत् त्वमेवंविधोऽपि 'अब्भुदए'त्ति अद्भुतकान् आश्चर्यरूपान् 'भोगान्' कामान् 'जहासि' त्यजसि, पठ्यते च-'चयसित्ति, 'पार्थिव !' पृथिवीपते !, पाठान्तरतश्च क्षत्रिय !, अथवा ['अम्भुयए'त्ति अभ्युदये, ततश्च यदभ्युदयेऽपि भोगांस्त्वं जहासि तदाश्चय वर्तते, तथा तत्त्यागतश्च 'असतः' अविद्यमानान् कामान् 'प्रार्थयसे' अभिलपसि यत्तदप्याश्चर्यमिति सम्बन्धः, अथवाऽधिकस्तवात्र दोषः, 'सङ्कल्पेन' उत्तरोत्तराप्राप्तभोगाभिलापरूपेण विकल्पेन 'विहन्यसे' विविधं वाध्यसे, एवंविधसङ्कल्पस्यापर्यवसितत्याद्, उक्तं हि-४ | "अमीषां स्थूलसूक्ष्माणामिन्द्रियार्थविधायिनाम् । शक्रादयोऽपि नो तृति, विशेषाणामुपागताः ॥ १॥" यद्वा| 'अच्छेरगमन्भुदए'त्ति मकारोऽलाक्षणिकः, ततश्च-आश्चर्याद्भुतयोरेकार्थत्वेऽप्युपादानमतिशयख्यापनार्थम्-अतिशयाद्भुतान् भोगान् जहासि पार्थिव ! असतश्च कामान् प्रार्थयसि यत्तत्सङ्कल्पेनैव उक्तरूपेण विहन्यसे-बाध्यसे, कथं बन्यथा विवेकिनस्तवैतत् सम्भवेत् ? । अनेन च यः सद्विवेको नासौ प्राप्तान विषयानप्राप्ताकाङ्क्षया परिहरति, यथा ब्रह्मदत्तचक्रवादिः, सद्विवेकश्च भवानित्यादिनीत्या हेतुकारणे सूचिते इति सूत्रार्थः ॥ तदनु एवं' ५२ सूत्रं प्राग्वत् । सल्लं कामा विसं कामा, कामा आसीविसोपमा । कामे पत्थेमाणा, अकामा जति दुग्गई ॥ ५३॥ व्याख्या-शलति-देहान्तश्चलतीति शल्य-शरीरान्तःप्रविष्टं तोमरादि शल्यमिव शल्यं, के ते?-काम्यमानत्वात् दीप अनुक्रम [२७५-२७७]] 2562-10-0-%% % JAINEducatanlidamational For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~633~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy