________________
आगम (४३)
प्रत
सूत्रांक
||१२||
दीप
अनुक्रम
[ २४० ]
Education
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा ||१२||
निर्युक्तिः [२७९...]
अध्ययनं [९],
एस अग्णी अ बाओ अ, एयं इज्झति मंदिरं । भगवं ! अंतेउरंतेणं, कीस णं नावपिक्खह ॥ १२ ॥ व्याख्या -- 'एप' इति प्रत्यक्षोपलभ्यमानः 'अग्निश्च' वैश्वानरः 'वातश्च' पवनस्तथा 'एतदिति प्रत्यक्षं 'दह्यते' भस्मसात् क्रियते, प्रक्रमाद्वातेरितेनाभिनैव, 'मन्दिरं' वेश्म, भवत्सम्बन्धीति शेषः, भगवन्निति पूर्ववद्, 'अन्तेउरंतेणं ति अन्तः पुराभिमुखं 'कीस 'त्ति कस्मात् ? 'णम्' इति वाक्यालङ्कारे 'नावप्रेक्षसे' नावलोकसे । इह च यद्यदात्मनः स्वं तत्तद्रक्षणीयं यथा ज्ञानादि, स्वं चेदं भवतोऽन्तःपुरमित्यादिहेतुकारणभावना प्राग्वदिति सूत्रार्थः ॥ ततश्च 'एयं' सूत्रं (१३) प्राग्वत् ॥ किमब्रवीत् ? इत्याह
सुहं वसामो जीवामो, जेसि मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे इज्झर किंचणं ॥ १४ ॥
व्याख्या- 'सुख' यथा भवत्येवं 'वसामः' तिष्ठामः 'जीवामः' प्राणान् धारयामः, येषां 'मो' इत्यस्माकं 'नास्ति' न विद्यते 'किञ्चन' वस्तुजातं, यतः- एकोऽहं न च मे कश्चित् खपरो वाऽपि विद्यते । यदेको जायते जन्तुर्नियतेऽप्येक एव हि ॥ १ ॥” इति न किञ्चिदन्तःपुरादि मत्सत्कं यतश्चैवमतो 'मिथिलायाम्' अस्यां पुरि दह्यमानायां न मे दाते 'किञ्चन' खल्पमपि, मिथिलाग्रहणं तु न केवलमन्तःपुराद्येव न मत्सम्बन्धि किन्त्वन्यदपि खजनजनादि स्वस्थकर्मफलभुजो हि जन्तवः तथा तथाऽस्मिन् भ्राम्यन्तीति किमत्र कस्य स्वं परं चेति ख्यापनार्थं । ततश्चानेन
For PP Use On
jancibrary urg
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
~618~