________________
आगम
(४३)
प्रत
सूत्रांक
||3||
दीप
अनुक्रम [२११]
उत्तराध्य. बृहद्वृत्तिः
॥२९० ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || ३ ||
अध्ययनं [८],
निर्युक्तिः [२५९...]
रिति साधुः, पाठान्तरतश्च 'दोपप्रदोषैः' तत्र दोषैः - इहैव मनस्तापादिभिः प्रदोषैश्च परत्र नरकगत्यादिभिरिति सूत्रार्थः ॥ पुनर्यदसौ कृतवांस्तदाह
तो नाणदंसणसमग्गो हियनिस्साए य सव्वजीवाणं । तेसिं विमोक्खणट्टाएँ भासइ मुणिवरो विगयमोहो ३ व्याख्या- 'तो' त्ति ततोऽनन्तरं, भाषते मुनिवर इति सम्बन्धः, स च कीदृग्र ? - ज्ञायतेऽनेन विशेषात्मना वस्त्विति ज्ञानं, दृश्यतेऽनेन सामान्यरूपेण वस्त्विति दर्शनं ताभ्यां प्रस्तावात् केवलाभ्यां समग्रः समन्वितः, यदिवा प्राकृतत्वात्समये - परिपूर्ण ज्ञानदर्शने यस्यासौ समग्रज्ञानदर्शनः, किमर्थमसौ भापत इत्याह- 'हियणिस्सेसाए' इति सूत्रत्वात् | हितः पथ्यो भावाऽऽरोग्यहेतुत्वात् निःश्रेयसो-मोक्षः, हितश्वासौ निःश्रेयसश्च हितनिःश्रेयसस्तस्मै, यद्वा प्राकृतत्वादेव निश्शेषं समस्तं हितं सम्यग्ज्ञानादि, तस्यैव तत्त्वतो हितत्वात्, ततो निश्शेषं च तद्धितं च निश्शेषहितं तस्मै, कथं नाम निश्शेषहितावाप्तिः स्यादिति, चशब्दो भिन्नक्रमः, तेषामित्यत्र योज्यते, केषाम् ? - 'सर्वजीवानाम्' अशेषप्राणिनां 'तेषां च पञ्चशतसङ्ख्यचौराणां विमोक्षणम्-अष्टविधकर्मणः पृथक्करणं तदेवार्थ:-प्रयोजनं * विमोक्षणार्थस्तस्मै तन्निमित्तं भाषते इति वर्तमाननिर्देशः प्राग्वत्, यद्वा- 'भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्व' मितिवचनात् तस्यापि तदा वर्तमानतैवेति तत्कालत्वस्य विवक्षितत्वान्न दोषः, 'मुनिवरः' मुनिप्रधानः, बिगतो- विनष्टो मोहो यस्य यस्माद्वा स तादृक् । इह च विगतमोहवचनेन चारित्रमोहनीयाभावतो यथाख्यात
Jain Education intimational
For Parent
कापिली
याध्य. ८
~ 579~
||२९० ॥
vaनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः