________________
आगम
(४३)
प्रत
सूत्रांक
||२०||
दीप
अनुक्रम
[१९८ ]
उत्तराध्य.
बृहद्वृत्तिः
॥२८१॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा ||२०||
निर्युक्ति: [२४९...]
Jain Education intimat
अध्ययनं [७],
'गृहिणथ' ते गृहस्थाः 'सुत्रताश्च' घृतसत्पुरुषत्रताः, ते हि प्रकृतिभद्रकत्वाद्यभ्यासानुभावत एव न विपद्यपि विषीदन्ति सदाचारं वा नावधीरयन्तीत्यादिगुणान्विताः, इदमेव च सतां व्रतं, लौकिका अप्याहुः- “विपद्युचैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् १ ॥ १ ॥” आगमविहितव्रतधारणं त्वमीषामसम्भवि, देवगति+ हेतुतयैव तदभिधानात् त ईदृशाः किमित्याह-उपयन्ति 'माणसं' ति मानुषीं मानुषसम्बन्धिनीं 'योनिम्' उक्तरूपां कर्म्मणा - मनोवाक्कायक्रियालक्षणेन सत्या - अविसंवादिनः कर्म्मसत्याः, 'हुः' अवधारणे, ततः कर्म्मसत्या एव सन्तः, तदसत्यतायास्तिर्यग्योनिहेतुत्वेनो कत्वात् तथा च वाचकः- “धूर्ता नैकृतिकाः स्तब्धा, लुब्धाः कार्पेटिकाः शठाः। विविधां ते प्रपद्यन्ते, तिर्यग्योनिं दुरुत्तराम् ॥ १॥" इत्यादि, पाठान्तरतश्च 'कर्मसु' अर्थान्मनुष्यगतियोग्यक्रिया४ रूपेषु सक्ता - अभिष्वङ्गवन्तः कर्मसक्ताः प्राणिनः - जीवाः, इह च नरग्रहणेऽपि प्राणिग्रहणं देवादिपरिग्रहार्थमिति न पुनरुक्तम् । यदिवा- विमात्रादिभिः शिक्षाभिर्ये नरा गृहिसुत्रताः यत्तदोर्नित्याभिसम्बन्धात् ते मानुषीं योनिमुपयान्ति, किमित्येवम् ?, अत आह- 'कम्मसच्चा हुपाणिणो' त्ति हुशब्दो यस्मादर्थे, यस्मात् सत्यानि - अवन्ध्यफलानि ॥२८१॥ कर्माणि - ज्ञानावरणादीनि येषां ते सत्यकर्माणः प्राणिनः, निरुपक्रमकर्म्मापेक्षं चैतदिति सूत्रार्थः ॥ सम्प्रति | लब्धला भोपनयमाह -
For Paren
औरश्री
याध्य. ७
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
~ 561~