SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७], मूलं [-] / गाथा ||१९|| नियुक्ति: [२४९...] (४३) प्रत सूत्रांक ||१९|| एवं जियं सहाए, तुलिया चालं च पंडियं । मूलियं ते पविस्संति, माणुसं जोणिमिति जे ॥१९॥ व्याख्या-'एवम्' उक्तनीत्या 'जिए'त्ति सुव्यत्ययाजितं लोलतया शाठ्येन च देवमनुजत्वे हारितं बालमिति प्रक्रमः, 'सपेहाए'त्ति सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वेव तोलयित्वा-गुणदोषवत्तया परिभाव्य, यदिवैवं जितं ४सम्पग-अविपरीता प्रेक्षा-बुद्धिः सम्प्रेक्षा तया तोलयित्वा, कम् ?-'बालं' चस्स भिन्नक्रमत्वात् 'पण्डितं च तद्विपरी-|| तम् ,अथवा मनुष्यदेवगतिगामिनम् , इह च द्वितीयव्याख्यायामेवं जितमिति बालस्य विशेषणं, न तु पण्डितस्य, असम्भवात् , तथा च सति मूले भवं मौलिक-मौलधनं ते प्रवेशयन्तीव प्रवेशयन्ति, मूलप्रवेशकवणिकसरशास्त इत्यभिप्रायः, ये किमित्याह-'माणुस्संति मनुष्याणामियं मानुषी तां योनिम्' उत्पत्तिस्थानम् 'आयान्ति' आगच्छन्ति, चालत्वपरिहारेण पण्डितत्वमासेवमाना ये त इति सूत्रार्थः । यथा च मानुषीं योनिमायान्ति तथा चाह वेमायाहिं सिक्खाहिजे नरा गिहि सब्वया। उर्विति माणुसं जोणी, कम्मसच्चा हुपाणिणो ॥२०॥ व्याख्या-विविधा मात्रा-परिमाणमासां विमात्राः-विचित्रपरिमाणाः ताभिः परिमाणविशेषमाश्रित्य विसरशीभिः 'शिक्षाभिः' प्रकृतिभद्रकत्वाद्यभ्यासरूपाभिः, उक्तं हि-"चउहि ठाणेहिं जीवा मणुयाउं बंधति, तंजहा-1 पगतिभद्दयाए पगतिविणीययाए साणुकोसयाए अमच्छरियाए"त्ति 'ये इत्यविवक्षितविशेषाः 'नराः' पुरुषाः, १ चतुर्भिः स्थान वा मनुजायुर्वनन्ति, तद्यथा-प्रकृतिभद्रकतया प्रकृतिविनीततया सानुक्रोशतया अमत्सरितया । दीप अनुक्रम [१९७] For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 560~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy