SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [११६] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [४], मूलं [-] / गाथा ||१|| निर्युक्तिः [१९१] | करणानि अवस्थान्तरापादनानि इन्द्रियकरणानि तानि च 'उपघातविशुद्धितः' उपघातात् विशुद्धेव भवन्ति, तत्रोपघाताद्विपाद्यभ्यवहारतोऽन्धवधिरताद्यापादनानि विशुद्धितश्च ब्राह्मीसमीराअनादिना स्पष्टताद्यापादनान्युतरकरणं भवति, पठ्यते च- 'इंदियकरणं च तह'ति अत्र चैकवचनान्ततया सर्व व्याख्येयमिति गाथार्थः ॥ १९१ ॥ अथवाऽन्यथा करणमुच्यते | संघायणपरिसाडणउभयं तिसु. दोसु नत्थि संघाओ । कालंतराइ तिग्रहं जहेव सुतंमि निद्दिट्टं ॥ १९२॥ व्याख्या- 'संघायणे 'ति संहन्यमानानां - संयुज्यमानानामौदारिका दिपुद्गलानां तैजसकार्मणपुद्गलैः सह यदात्मनस्तत्तत्पुद्गलग्रहणात्मिकासु तदनुकूलक्रियासु वर्त्तनात्मकं प्रयोजकत्वं सा सङ्घातना, तथा परि:-समन्ताच्छटतां| पृथग्भवता मौदारिकादिपुद्गलानां यदात्मनस्तान्प्रति ततच्छरीरविमोक्षात्मकं प्रयोजकभवनं सा परिशाटना, उभावभिहिताववयवावस्येति उभयं सङ्घातनापरिशाटनाकरणं । किमिदं त्रयमपि पञ्चस्वप्यौदारिकादिषु अथान्यथेत्याहत्रिष्वाद्येषु, किमुक्तं भवति ? - औदारिकवै क्रियाहारकेषु, 'द्वयोः ' तैजसकार्म्मणयोः, किमित्याह – 'नास्ति' न विद्यते, कोऽसौ ? - सङ्घातः, तदैभावाच सङ्घातनापि नास्तीति भावः, सा हि प्रथमत उत्पद्यमानस्य जीवस्य तैलभृततततापिकाप्रक्षिप्तापूपवत् तैलसदृशानौदारिका दिपुद्गलानाददानस्यैवौदारिकादिष्वपि वर्ण्यते न च तैजसकार्मणयोः प्रथमत उपादानसम्भवः, अनादिसंहतिमत्यात्तयोः, परिशाटना तु शैलेशी चरमसमये, प्रतिसमयं सङ्घातना परिशाटनोभयं च सम्भ Education intimationa For Fans Only www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~ 395~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy