________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||१||
नियुक्ति: [१८६]
(४३)
प्रत सूत्रांक
||१||
माह-सहादिना वर्त्तते सादिकं ततोऽन्यत्त्वनादिकमिति भेदतो द्विविध, पुनरिति मूलभेदापेक्षया, विश्रसाकरणम्उक्तरूपमिति गाथार्थः ॥ १८५ ॥ तत्रानादिकं वक्तुमाहधम्माधम्मागासा एवं तिविहं भवे अणाईयं । चकख़ुअचखुप्फासे एयं दुविहं तु साईयं ॥ १८६॥
व्याख्या-धर्माधर्माकाशानामन्योऽन्यसंवलनेन सदाऽवस्थानमनादिकरणं, न हि तत्कदाचिन्नासीनास्ति न भविप्यति बा, उक्तं हि-"धम्माधम्मणहाणं अणाइसंहायणाकरणं" न च करणमनादि च विरुद्धमिति वाच्यं, यतोऽत्रान्योअन्यसमाधानं करणमभिप्रेत, न त्वन्योऽन्यनिर्वर्तनम् , आह च-"अन्नोऽनसमाहाणं जमिहं करणं ण णिवत्ती". इहा च धर्माधर्माकाशानां करणमिति वक्तव्ये कथञ्चित्क्रियाक्रियावतोरभेददर्शनार्थमनुकूलितक्रियत्वख्यापनार्थ वा धर्माधर्माकाशाः करणमित्युक्तम् , 'एतद्' अनन्तरोक्तं 'त्रिविधं त्रिप्रकारं भवेत्' स्यात् अनादिकं, करणमिति प्रक्रमः ।
इत्थमनादिकं पचानिर्दिष्टमपि पश्चानुपूर्यपि व्याख्यानमिति ख्यापनाय उक्तं, सम्प्रति तु सादिकमाह-'चक्खुमच-18 दक्खुप्फासे'त्ति स्पर्शशब्दः प्रत्येकमभिसम्बध्यते, ततश्चक्षुषा स्पृश्यते-गृह्यमाणतया युज्यत इति चक्षुःस्पर्श-स्थूलपरि
तिमत्पुद्गलद्रव्यम् अतोऽन्यदचक्षुःस्पर्शम् , 'एयं दुविहं तु'त्ति एतद्विविधमेव, तुशब्दस्वकारार्थत्वात् सादिकमिति गाथार्थः ॥ १८६ ॥ इदमेव द्वितयं व्यक्तीकर्तुमाह
१ धर्माधर्मनभसामनादिसंघातनाकरणम् । २ अन्योऽन्यसमाधानं यदिह (तत्) करणं न निर्वृत्तिः ।।
दीप अनुक्रम [११६]
IndiaTary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~391~