________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४],
मूलं [--] / गाथा ||१|| _ नियुक्ति: [१८१...]
(४३)
प्रत सूत्रांक
||१||
उभयत्र सूत्रत्वादेकवचनं, 'कम्' अर्थ प्रक्रमात् त्राणं, नु इति वितर्के, विविधम्-अनेकधा हिंसा-हिंसनशीलाः,13 आर्यत्वाद्वा वीति-विश्रब्धान् खेषु खेपूत्पत्तिस्थानेष्वनाकुलमवस्थितान् जन्तून् हिंसन्तीति विहिंसाः, तथा अयता:तत्तत्पापस्थानेभ्योऽनुपरताः 'गहिन्ति त्ति सूत्रत्वाद् गमिष्यन्ति, ग्रहीष्यन्ति वा-खीकरिष्यन्ति, किमुक्तं भवति?६ एवमेतेप्रमत्तादिविशेषणान्विता जनाः स्वकृतरीदग्भिः कर्मभिर्नरकादिकमेव यातनास्थानं गमिष्यन्ति ग्रहीष्यन्ति वा. दयद्वैवं नीयते-असंस्कृतं जीवितमिति मा प्रमादीरित्यादि (दौ) गुरुणोक्त कदाचिच्छिष्यो वदेत्-बहुरयं जनः प्रमत्तः,
तद्वदहमपि भविष्यामीत्याशय गुरुराह-भद्र ! एवं जानीहि जनः प्रमत्तो विहिंस्रोऽयतः 'कन्नु'त्ति कामप्यवक्तव्यां नरकादिगतिमसौ गमिष्यति ग्रहीष्यति वा, अतः किं तव विवेकिन एवंविधजनव्यवहाराश्रयणेन ?, सूत्रत्वाच्चैकत्वेऽपि बहुवचनमिति सूत्रार्थः ॥ १॥ असंस्कृतं जीवितमित्युक्तम् , अतस्तद् व्याचिख्यासुराह नियुक्तिकृत्
उत्तरकरणेण कयं जं किंची संखयं तु नायवं । सेसं असंखयं खलु असंखयस्सेस निज्जुत्ती ॥ १८२॥ MI व्याख्या-मूलतः खहेतुभ्य उत्पन्नस्य पुनरुत्तरकालं विशेषाधानात्मक करणमुत्तरकरणं तेन कृतं-निर्वर्तितं, 'यत्किञ्चिदि'त्यविवक्षितघटादि, यत्तदोर्नित्यमभिसम्बन्धात् तत् संस्कृत, तुः अवधारणे, स चैवं योज्यते-यदुत्तरकरणकृतं तदेव संस्कृतं ज्ञातव्यं, 'शेषम्' अतोऽन्यत्संस्कारानुचितं विदीर्णमुक्ताफलोपममसंस्कृतमेव, खलुशब्द| स्यैवकारार्थत्वात् , असंस्कृतमित्यस्य सूत्रावयवस्य 'एषा' वक्ष्यमाणलक्षणा नियुक्तिः, बहुवक्तव्यतया च प्रतिज्ञानम् ,
दीप अनुक्रम [११६]
SACARROR
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~387~