________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम [५]
उत्तराध्य.
बृहद्वृत्तिः
॥ १६६ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१...] / गाथा ||४६...||
अध्ययनं [३],
Education intol
किञ्च यत्रेन्द्रियपञ्चकमपि सञ्चरन्मनोदुर्लक्षं, अत एव दीर्घा शुष्कां तिलशष्कुलिका भक्षयतो बुद्धस्य पञ्च ज्ञानानि समुत्पन्नानीति कैश्चिदुच्यते, तत्रैकेन्द्रियस्य देशान्मनः सञ्चरंलक्षिष्यत इति दुराशयम्, इह च सञ्चरणमुपयोगगमनम्, अन्यथा शरीरव्यापिनः तस्य सञ्चारायोगात्, अथात्रानुमानसिद्धः क्रम इति यौगपद्याभाव:, तथाहि--यत् क्रियावत् तत् क्रमेणैव देशान्तरस्कन्दि, यथाऽऽदित्यः क्रियावञ्च सूच्यादि, इदमपि समानमत्रापि, यो दूरदेशौ न तयोर्युगपदेकस्य सञ्चारो यथा हिमवद्विन्ध्यशिखरयोर्देवदत्तस्य, दूरदेशी च शिरश्चरणगतत्व गिन्द्रियदेशावित्यनुमानेन मनसः क्रमसञ्चारसिद्धेः, स्थादेतद्— आगमसिद्धमुपयोगयौगपद्यं, न च तद् युगपन्मनसः सञ्चारं विनेति न मनसः क्रमसवारसाधकानुमानोत्थानम्, आगमसिद्धता चास्य बहुबहुविधादिग्राहित्वाभिधानेनावग्रहादीनामनेकग्रहणस्य तत्रोक्तत्वात्, तदभिधानाच युगपदनेकोपयोगताऽप्युक्तैवेति, नन्यत्रानेकग्रहणं किं सामान्यविशेषाणां ग्रहणमपेक्ष्य केवलविशेषाणां वा १, न तावदाद्यः पक्षो यतोऽनुवृत्तिव्यावृत्तिरूपेण विलक्षणत्वं सामान्यविशेषाणां तथा चाह-य एकत्र ग्रहण| परिणामः स नान्यत्रेति कथं युगपत्सामान्यविशेषग्रहणम् १, अथ द्वितीयः पक्षः, उक्तं हि “विशेषाणां व्यावृत्तिरूपेणाविलक्षणत्वात् युगपद्वहूनामपि ग्रहणम्, 'तन्न, विरुद्धत्वादस्य, तथाहि - विशेषाश्चाविलक्षणाश्चेति परस्परविरुद्धं वचः, अथ भिन्नेष्वपि विशेषेष्वभिन्नं सामान्यमिति तद्रूपेण तेषां ग्रहणम् इदमस्मदिष्टमेव, उक्तं च- "उसिणेयं सीयेयं ण विभागेणोवओगदुगमिहं । होज्जा समदुगगहणं सामन्नं वेयणामेत्तं ॥ १ ॥ " न चैवमनेकग्रहणं युगपदनेकोपयो१ उष्णेयं शीतेयं न विभागेनोपयोगद्वयमिष्टम् । भवेत् समकं द्विकग्रहणं सामान्यं वेदनामात्रम् ॥ १ ॥
For Fans Only
निर्युक्तिः [१७१]
~333~
चतुरङ्गीया ध्ययनम्
३
॥१६६॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
g