________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||२६१-२६५|| नियुक्ति : [५५६...], भाष्यं [१५...]
(४३)
उत्तराध्य.
प्रत
सूत्रांक
बृहद्वृत्तिः ॥७११॥
३६
[२६१-२६५]
तदासेवनात्, एताभ्याम्' अनन्तरोक्ताभ्याम् 'आसुरिय'ति आसुरीं भावनां करोति । शस्यतेऽनेनेनि शस्त्रं-सङ्गारि- जीवाजीव
कादि तस्य ग्रहणं-खीकरणमुपलक्षणत्वादस्यात्मनि वधार्थ व्यापारणं शस्त्रग्रहणं, वेवेष्टि-व्याप्नोति झगित्यात्मानमिति विभक्तिः दाविष-तालपुटादि तस्य भक्षणम्-अभ्यवहरणं विषभक्षणं, चशब्द उक्तसमुच्चयार्थः पर्यन्ते योक्ष्यते, 'ज्वलनं दीपनमा-14
मन इति गम्यते, जले प्रवेशो-निमजनं जलप्रवेशः, चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः, आचारः-शास्त्रविहितो | व्यवहारस्तेन भाण्डम्-उपकरणमाचारभाण्डं न तथाऽनाचारभाण्डं तस्य सेवा-हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा, गम्यमानत्वादेतानि कुर्वन्तो यतयः, किमित्याह-जन्ममरणान्युपचारात्तन्निमित्तकर्माणि 'बभन्ति' आत्मना श्लेषयन्ति, संक्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् , अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोही भावनोक्ता, यतस्तल्लक्षणम्-"उम्मग्गदेसओ मग्गनासओ मग्गविप्पडिवत्ती । मोहेण य मोहित्ता संमोहं भावणं कुणइ ॥१॥"त्ति, ननु पूर्व तद्विधदेवगामित्वं भावनाफलमुक्तमिह त्वन्यदेवास्था इति न कथं विरोधः १, उच्यते, अनन्तरफलमाश्रित्य तदुदितमिदं [दमेव चूण्ां दृश्यते, तत्रैव जीवेत्यादि] तु पर- ७१शा |म्पराफलं सर्वभावनानामिति भावनार्थमित्थमुपन्यासः, तथा चोक्तम्-"ऐयाओ भावणाओ भाविता देवदुग्गई
१ उग्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिः । मोहेन च मोहयित्वा संमोही भावनां करोति ॥१॥२ एता भावना भावयित्वा देवदुर्गति
दीप अनुक्रम [१७२६-१७३०]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1420~