________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-1 / गाथा ||६५|| नियुक्ति: [५५६...], भाष्यं [१५...]
(४३)
प्रत
सुत्राक
[६५]]
स्वाहिशेषणस्य परनिपातः ज्ञानदर्शने उक्तरूपे ते एव सञ्जा-सम्यग्बोधरूपा सञ्जातैषामिति तारकादेराकृतिगण3ात्वादितचि ज्ञानदर्शनसब्जिताः-ज्ञानदर्शनोपयोगवन्तो न विद्यते तुलेव तुला-इयत्ता परिच्छेदहेतुरस्येति अतुलम्
अपरिमितत्वात् , उक्तं हि-"सिद्धस्स सुहो रासी सबद्धवापिंडितो जइ हवेजा। सोऽणंतवग्गभइतो सबागासे न माइजा॥१॥” इति, सुख-शर्म समित्येकीभावेन दुःखलेशाकलक्तित्वलक्षणेन प्राप्ताः, सुखमेव पुनर्विशिनष्टिउपमा यस्य 'नास्ति तु' न विद्यत एव, यदुक्तम्-"लोके तत्सदृशो यर्थः, कृत्लेऽप्यन्यो न विद्यते । उपमीयेत तयेन, तस्मान्निरुपमं स्मृतम् ॥१॥" न च विषयाभावतस्तत्र सुखशब्दाभिधेयाभाव एवेत्याशङ्कनीयं, चतुरर्थत्वात्तस्य, उक्तं हि-लोके चतुबिहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाऽभावे, विपाके मोक्ष एव च ॥१॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥२॥ पुण्यकर्मविपाकाच, सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् ॥ ३॥" ततश्च मोक्षस्यैव तत्र सुखशब्दाभिधेयत्वादसम्भव एवाशायाः, इह च जीवघना इत्यनेन सीगताभिमतमभावरूपत्वं मुक्तेः उत्तरविशेषणद्वयेन च 'सुखदुःखबुद्धीच्छादेवप्रयतधर्माधर्मसंस्कारा नवात्मगुणास्तेषामत्सन्तोच्छित्तिनिःश्रेयसमिति वचनादचेतनत्वासुखित्वे च सिद्धस्य | 2 नयायिकाद्यभिमते निराकुरुते, अभावरूपत्वे हि मुक्तरर्थक्रियासामर्थ्यलक्षणत्वावस्तुनोऽन्त्यक्षणस क्षणान्तराजनना। १ सिद्धस्य सुखराशिः सर्वाद्धापिण्डितो यदि भवेत् । सोऽनन्तवर्गभक्तः सर्वाकाशे न मायात् ॥ १॥
दीप अनुक्रम [१५२९]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1371 ~