________________
आगम
(४३)
प्रत
सूत्रांक
[४९
-५०]
दीप
अनुक्रम [१५१३
-१५१४]
उत्तराध्य.
बृहद्वृत्तिः
॥ ६८० ॥
“उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [ ३६ ], मूलं [-] / गाथा ||४९-५०||
निर्युक्तिः [५५६...],
यतो न तन्निषेधाद्विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्धयुपदेशः, यदुक्तम्- “संवरनिजैररूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ॥ १ ॥" यच्च पुरुषानभिवन्यत्वं हेतुरुक्तः तदपि सामान्येन गुणाधिकपुरुषापेक्षं वा ? यदि सामान्येन तदाऽसिद्धतादोषः, तीर्थकरजनन्यादयो हि शक्रादिभिरपि प्रणताः किमङ्ग शेषपुरुषैः ?; गुणाधिकपुरुषापेक्षं चेङ्गणधरा अपि तीर्थकृद्भिर्नाभिवन्द्यत इति तेषामप्यपकृष्यमाणत्वम्, अथ तीर्थशब्दस्याद्यगणधराभिधायित्वात्तीर्थप्रणामपूर्वकत्वा चाईदेशनाया असिद्धमेव तदनभिवन्द्यत्वं गणधराणाम्, एवं तर्हि चातुर्वर्णसङ्घस्यापि तदभिधेयत्वात्तदन्तर्भावांच स्त्रीणामईद्भिरपि वन्यत्वे कथं पुरुषानभिवन्यत्वेन तासां तेभ्योऽपकृष्यमाणत्वम् १, अथ स्वारणायकर्तृत्वेन, एवं सति समानेऽपि रत्नत्रये शिष्याचार्ययोराचार्यस्यैव मुक्तिः स्यान्न शिष्यस्य, सारणाद्यकर्तृत्वेन तस्य ततोऽपकृष्यमाणत्वात् न चैतदागमिकं चण्डरुद्राद्याचार्यशिष्याणामागमे निःश्रेयस श्रवणात्, अथामहर्द्धिकत्वेन स्त्रीणां पुरुषेम्योऽपकृष्यमाणत्वं, तथा सति प्रष्टव्योऽसि किमाध्यात्मिकी मृद्धिमाश्रित्य बाह्यां वा ? तत्र न तावदाध्यात्मिकीमुक्तन्यायतो रत्नत्रयस्य तासां समर्थितत्वात् नापि बाह्याम्, एवं हि महत्या तीर्थकरादिलक्ष्म्या गणधरादयश्चक्रधरादिलक्ष्म्याश्वेतरक्ष(रेऽक्ष ) त्रियादयो न भाजनमिति तेषामप्य महर्द्धिकत्वेनापकृष्यमाणत्वान्मुक्तिकारण वैकल्यप्रसङ्गः, यदपि मायादिप्रकर्षवश्वेनेत्युच्यते, तदप्यसत्, तस्योभयोरपि तुल्यत्वेन दर्शनादागमे च श्रवणात् श्रूयते हि चरमशरीरिणामपि
Education infamational
For Patenty
भाष्यं [१५...]
~1358~
जीवाजीव
| विभक्ति०
३६
॥ ६८० ॥
ww
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः