________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] / गाथा ||४९-५०|| नियुक्ति : [५५६...], भाष्यं [१५...]
(४३)
*
प्रत
*
सूत्रांक
%*
[४९
x
-५०]
"छडिंच इत्थियाओ मच्छा मणुया य सत्तमी पुढवीं" इत्यागमय चनात्पुरुषाणामेव सप्तमनरकपृथ्वीगमनयोग्यकर्मोपार्जनसामर्थ्यं न स्त्रीणामित्यधोगतौ पुरुषतुल्यसामर्थ्याभावादूर्ध्वगतावपि तासां तदभावोऽनुमीयते ततस्तासां पुरुषेभ्योऽपकृष्यमाणतेति, तदप्ययुक्तं, यतो येषामधोगती तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न नियमोऽस्ति, तथाहि-समुच्छिमभुयगखगचउप्पयसप्पित्थिजलचरेहितो । सनरेहिंतो सत्तसु कमोववजंति| नरएसु ॥१॥" इति वचनाडुजगचतुष्पत्सर्पखगजलचरनराणामधोगतावतुल्यं सामर्थ्यमूर्द्धगती तु "सन्नितिरि
खेहिंतो सहस्सारंतिएसु देवेसु । उप्पाजंति परेसुवि सब्वेसुवि माणुसेहिंतो ॥१॥" इति वचनादेषामासहसारान्तोपपातानुल्यमेव सामर्थ्यम् , उक्तं च-"विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् । गच्छन्ति च तिर्यश्चस्तदधोगत्यूनताऽहेतुः ॥३॥" अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्टसामर्थ्यासत्त्वम्, अथ चादादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्वेन विशिष्ट सामर्थ्य व्याप्तमुपलब्धं भवेत्ततस्तन्निवृत्तौ तस्य । निवृत्तिः स्यात्, न चैवम् , अनयोाप्यव्यापकभावस्य कचिदनिश्चयात् , अल्पश्रुतत्वं तु मुक्त्यवाप्त्याऽनुमितविशिष्टसामध्यमाचतुपादिभिरनैकान्तिकमित्यनुद्घोष्यमेव, यदप्यनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तं,
१ षष्ठीं च स्त्रियो मत्स्या मनुजाश्च सप्तमी पृथ्वीम् । २ समूछिमभुजपरिसर्पखवरचतुष्पदसर्पश्खीजलचरेभ्यः । समनुष्येभ्यः सप्तम|| /मादुपपद्यन्ते नरफेषु ।।२ ॥ ३ संझितिर्यग्भ्यः सहस्रारान्तिकेषु देवेषु । उत्पद्यन्ते परेष्वपि सर्वेष्वपि मनुष्येभ्यः ।। ३॥
-
दीप अनुक्रम [१५१३-१५१४]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1357~