________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३५],
मूलं [-] / गाथा ||२-२१|| नियुक्ति: [५४८...]
(४३)
प्रत सूत्रांक [२-२१]
पोवा रसः स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादित्येतदर्थ 'न भुंजीत' नाम्यवहरेत् , किमर्थं तह-त्याहयापना-निर्वाहः स चार्थासंयमस्य तदर्थं 'महामुनिः' प्रधानतपखी, अनेन पिण्डविशुद्विरुक्ता । तदेवमादौ मूलगुणान् विधेयतयाऽभिधाय तत्परिपालनार्थमाश्रयाहारचिन्ताद्वारेणोत्तरगुणांश्च सम्प्रति तदवस्थित एवात्मन्युत्पन्नबहुमानः कश्चिदर्चनादि प्रार्थयेदिति तनिषेधार्थमाह-अर्चना' पुष्पादिभिः पूजां 'रचना' निषद्यादिविषयां खस्तिकादिन्यासात्मिकां वा 'चः' समुच्चये 'एवः' अवधारणे नेत्यनेन संभन्स्यते 'वन्दनं' नमस्तुभ्यमित्यादि वाचाsभिष्टवनं 'पूजन' विशिष्टवस्त्रादिभिः प्रतिलाभनं 'तथे ति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पदामर्षोषध्यादि-| रूपा या सत्कारच-अर्घप्रदानादिः सन्मानश्च-अभ्युत्थानादिः ऋद्धिसत्कारसन्मानं तन्मनसाऽप्यास्तां वाचा नैव प्रार्थयेत्' ममेदं स्थादित्यभिलपेत् । किं पुनः कुर्यादित्याह-शुक्लध्यानम्' उक्तरूपं यथा भवत्येवं 'ध्यायेत्' चिन्तयेत् 'अनिदानः' अविद्यमाननिदानोऽकिञ्चनः प्राग्वत्, व्युत्सृष्ट इव व्युत्सृष्टः काया-शरीरं येन स तथा विहरेदप्रतिबद्धविहारितयेति गम्यते 'यावदिति मयोंदायां 'कालय' इति मृत्योः 'पजयत्ति' 'पर्यायः' परिपाटी प्रस्ताव इतियावत् , यावन्मरणसमयः क्रमप्राप्तो भवतीति । एवंविधानगारगुणस्थश्च यावदायुर्विहृत्य मृत्युसमये यत्कृत्वा यत्फलमवाप्नोति तदाह-णिज्जूहिऊण'त्ति परित्यज्य 'आहारम्' अशनादि, तत्परित्यागश्च संलेखनाक्रमेणैव,
दीप अनुक्रम [१४४५
-१४६४]
wwlandiarayan
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: मुनि दीपरत्नसागरेण
~ 1333~