________________
आगम
(४३)
प्रत
सूत्रांक
[२-२१]
दीप
अनुक्रम
[१४४५
-१४६४]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || २-२१||
अध्ययनं [३५],
Education intonal
एवंविधथ सन् भिक्षुः 'विरतः' निवृत्तः स्यादिति शेषः, कुतः ? — क्रयो - मूल्येनान्यसम्वन्धिनस्तथाविधवस्तुनः स्वीकारो विक्रयश्च तस्यैवात्मीयस्य तथाविधवस्तुजातेनान्यस्य दानं क्रयश्च विक्रयश्च क्रयविक्रयमिति समाहारतस्मात् पञ्चम्यर्थे सप्तमी, विषयसप्तमी वा तत्र च क्रयविक्रयविषये, 'विरतः' इति विरतिमानित्यर्थः किमित्येवम् ? अत आह- क्रीणानः- परकीयं वस्तु मूल्येनाददानः क्रयोऽस्यास्तीति क्रयिको भवति तथाविधेतरलोकसरश एव भवति, विक्रीणानश्च स्वकीयं वस्तु तथैव परस्य ददद्वणिग् भवति, वाणिज्यप्रवृत्तत्त्वादिति भावः, अत एव च 'क्रयविक्रये' उक्तरूपे 'वर्त्तमानः' प्रवर्त्तमानो भिक्षुर्भवति न तादृशो, गम्यमानत्वाद्यादृशः सूत्राभिहितो भावभिक्षुरिति भावः । ततः किमित्याह - 'मिक्षितव्यं याचितव्यं तथाविधं वस्त्विति गम्यते, 'न' नैव 'क्रेतव्यं' मूल्येन ग्रहीतव्यं, केन ?-- भिक्षुणा, कीदृशा ? - भिक्षयैव वृत्तिः-वर्त्तनं निर्वहणं यस्यासौ भिक्षावृत्तिस्तेन, उक्तं हि "संबं से जाइयं होइ नत्थि किंचि अजाइयं "ति, क्रयविक्रयवद्भिक्षाऽपि सदोषैव भविष्यतीति मन्दधीर्मन्यते, तत आह-क्रयश्च विक्रयश्च क्रयविक्रयं व्यवच्छेदफलत्वादस्य तदेव महादोषमुक्तन्यायतः, लिङ्गव्यत्यग्रश्च प्राग्वत्, भिक्षया वृत्तिर्भिक्षावृत्तिः शुभं - इहलोक परलोकयोः कल्याणं सुखं वा तदावहति - समन्तात्प्रापयनीति शुभावद्दा सुखावहा बा, अनेन क्रीतदोषपरिहार उक्तः, स चाशेषविशुद्ध कोटिगत दोषपरिहारोपलक्षणम् । १ स तस्मयाचितं भवति नास्ति किश्चिदद्याचितम् ।
For Final P
निर्युक्तिः [५४८...]
~ 1331~
www.janbrag
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः