________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३५],
मूलं [-] / गाथा ||२-२१|| नियुक्ति: [५४८...]
(४३)
प्रत सूत्रांक [२-२१]
पृथिव्याघेकेन्द्रियाणां 'च' समुच्चये तेषामपि 'सूक्ष्माणाम्' अतिश्लक्ष्णानां शरीरापेक्षया न जीवप्रदेशापेक्षया, तस्यामूर्ततययंप्रायव्यषहारायोगात्, 'बादराणां च एवमेव स्थूलाना, यद्वा सूक्ष्मनामकर्मोदयात्सूक्ष्माणां तेषामपि प्रमादतो भावहिंसासम्भवाद्वादरनामकर्मोदयाच बादराणाम् , उपसंहर्जुमाह-'तम्ह'ति यस्मादेवं भूतषधस्तस्माद्गहसमारम्भ 'संयतः' सम्यगहिसादिभ्य उपरतोऽनगार इत्यर्थः 'परिवर्जयेत्' परिहरेत् , इत्थमाश्रयचिन्तां विधायाहारचितामाह-'तथैव' तेनैव प्रकारेण भक्तानि च-शाल्योदनादीनि पीयन्त इति पानानि-पयःप्रभृतीनि तानि च भक्तपानानि तेषु, पचनानि च-स्वयं विक्लेदापादनक्कथनानि पाचनानि च-तान्येवान्यैः पचनपाचनानि तेषु च भूतवधो दृश्यत इति प्रक्रमः, ततः किमित्याह-प्राणा-द्वीन्द्रियादयो भूतानि-पृथिव्यादीनि तेषां दया-रक्षणं प्राणभूतदया तदर्थ-तद्धेतोः, किमुक्तं भवति ?-पचनपाचनप्रवृत्तानां यः संभवी जीवोपघातः स मा भूदिति न पचेत्खतो भक्तादीति प्रक्रमो नापि पाचयेत्तदेवान्यैः । अमुमेवार्थ स्पष्टतरमाह-जलं च-पानीयं धान्यं च-शाल्यादि तनिश्रिताःतत्रान्यत्र चोत्पद्य ये तन्निश्रया स्थिता पूतरकभुजगेलिकापिपीलिकाप्रभृतय उपलक्षणत्वात्तदूपाश्च 'जीवाः' प्राणि|नः, एवं पृथ्वीकाष्ठनिश्रिता एकेन्द्रियादयो हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानादिषु, यत एवं तस्माद्भिक्षुर्न पाचहै येत्, अपेर्गम्यमानत्वात्पाचयेदपि न किं पुनः वयं पचेत् , अनुमतिनिषेधोपलक्षणं चैतत् । अपरं च विसर्पतीति
दीप अनुक्रम [१४४५
-१४६४]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1329~