SearchBrowseAboutContactDonate
Page Preview
Page 1291
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत [१८] दीप अनुक्रम [१३७५] उत्तराध्य. वृहद्वृत्तिः ॥६४६ ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१८|| अध्ययनं [ ३३ ], निर्युक्ति: [५३२...] वाधिकृत्य नियमेन व्याख्येयमेकेन्द्रियाणामन्यथाऽपि सम्भवात्, तथा चागमः- “जीवे णं भंते ! तेयाकम्मापोग्गलाणं गहणं करेमाणे किं तिदिसिं करेति चउद्दिसिं करेइ पंचदिसिं करेइ छहिसिं करेइ १, गोयमा ! सिय तिदिसिं सिय चउहिसिं सिय पंचदिसिं सिय छद्दिसिं करेति, एगिंदिया णं भंते । तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छद्दिसिं करेति ?, गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं सिय छद्दिसिं करेइ, बेंदियतेंदिय चउरिंदियपंचिंदिया नियमा छुद्दिसिं"ति, तच पदिग्गतं सर्वेष्वपि न तु कतिपयेषु प्रदेशेष्यपि, अर्थादाकाशस्योक्कन्यायादात्मावष्टच्धेषु कर्म सर्वजीवानां सङ्ग्रहे योग्यं भवति, ते वा तत्संगृह्णन्ति, तत्स्थकर्मपुद्गलान् प्रत्यात्मनो ग्रहणहेत्वविशेषात् तथा 'सर्व' समस्तं ज्ञानावरणादि न त्वन्यतरदेव, आत्मा हि सर्वप्रकृतिप्रायोग्यान् पुद्गलान् सामान्येनादाय तानेवाध्यवसायविशेपात् पृथक् पृथग् ज्ञानावरणादिरूपत्वेन परिणमयति, तचैवंविधं कर्म संगृहीतं सत् किं कैश्विदेवात्मप्रदेशषद्धं भवति यद्वा सर्वेणात्मना ? इत्याह- 'सर्वेण' समस्तेन प्रक्रमादात्मना न तु कियद्भिरेव तत्प्रदेशैः बद्ध-क्षीरोदकवदात्मप्रदेशः विष्टं तदेव बद्धकम्, अन्योऽन्यसम्बद्धतया हि शृङ्खलावयवानामिव परस्परोपका| रित्वादात्मनः प्रदेशानां सदैव योगोपयोगी भवतो, न त्वेकैकशः, तन्निमित्तकश्च कर्मबन्ध इति सोऽपि सर्वेणैवात्मना, ग्रहणपूर्वकत्याच बन्धस्य तदप्येवमेव यद्वा तद् गृहीतं सत् केन सह कियत्कथं वा बद्धं भवति ? इत्याह'सधेसुबि परसेसु' सुव्यत्ययात्सर्वैरपि प्रदेशः प्रक्रमादात्मनः 'सर्व' सर्वप्रकृतिरूपं 'सर्वेण' गम्यमानत्वात्प्रकृतिस्थित्यादिना प्रकारेण बद्धकमिति सूत्रार्थः ॥ सम्प्रति कालमाह Education intimational For Fans Only कर्मप्रकृ त्यध्य. ३३ ~1290~ ॥६४६॥ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy