________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा |४||
नियुक्ति: [६४...]
(४३)
*%
प्रत
सूत्रांक
||४०||
A4
ग्धमधुराहारादिभिः प्रतिदिवसमुपचर्यते स्म, तच्छिष्याच गुरुकर्मतया कदाचिदचिन्तयन् , यथा-कियचिरमयमजजमोऽस्माभिरनुपालनीयः, ततस्तमनशनमादापयितुमिच्छयोऽतिभक्तश्रावकजनानुदिनदीयमानमुचितमशनादि तस्मै न समर्पयामासुः, अन्तप्रान्तादि च समुपनीय सविषादमिव तत्पुरत उक्तवन्तः-किमिह कुर्मः १, यदीदृशामपि भवतामुचितमशनादिनामी विवेकविकलतया सदपि सम्पादयितुमीशते, श्राद्धानभिदधति च, यथा-अत्यन्तनिःस्पृह|तया शरीरयापनामपि प्रत्यनपेक्षिणः प्रणीतं भक्तपानमाचार्या नेच्छन्ति, किन्तु संलेखनामेव विधातुमध्ययस्यन्तीति। ततस्ते तद्वचनमाकार्य मन्युभरनिभृतचेतसस्तमुपसृत्य सगद्दं जगदुः-भगवन् ! भुवनभवभावखभावावभासिवर्हत्सु चिरतरातीतेष्वपि प्रतपत्सु भवत्सु भुवनमवभासयदिवाभाति, तत्किमयमत्र भवद्भिरकाल एव संलेखनाविधिरारब्धः?, न च वयममीषां निर्वेदहेतव इति मन्तव्यं, यतः-शिरःस्थिता अपि भवन्तो न भारमस्माकममीपां वा शिष्याणां - कदाचिदादधति, ततस्तैरिक्तिहरवगतं-यथाऽस्मन्शियमतिविजृम्भितमेतत् , किममीपामप्रीतिहेतुना प्राणधारणेन ? न खलु धर्मार्थिनां कस्यचिदप्रीतिरुपादयितुमुचितेति चेतसि विचिन्त्य मुकुलितमेव तत्पुरत उक्कं-कियचिरमजजमैरस्माभिरुपरोधनीयास्तपखिनो भवन्तश्च, तद्वरमुत्तमाचरितमुत्तमार्थमेव च प्रतिपद्यामहे इति तानसी संस्थाप्य | भक्तमेव प्रत्याचचक्षे । इत्येवं बुद्धोपघाती न स्यादिति सूत्रार्थः ॥४०॥ एवं तापदाचार्य न कोपयेदित्युक्तं, कथञ्चित कुपिते वा यत् कृत्यं तदाह
दीप अनुक्रम [४०]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~128~