________________
आगम
(४३)
प्रत
सूत्रांक
||३९||
दीप
अनुक्रम
[३९]
उत्तराध्य.
बृहद्वत्तिः
।। ६२ ।।
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [-] / गाथा ||३९||
अध्ययनं [१],
ratnamation
'साधुः' सुशिष्यः 'कल्याणं' कल्याणहेतुमाचार्यमनुशासनं वा मन्यते स हि विवेचयति शिष्यः - सौहार्दादसों मां शास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ?, ममैव त्वर्थभ्रंश इति । बालोऽप्येवं किं न मन्यत इत्याह- 'पापदृष्टिस्तु' कुशिष्यः पुनरात्मानं 'साम'ति प्राकृतत्वाद्धितानुशासनेनापि शास्यमानं दासमिव मन्यते यथा असौ दासवन्मामाज्ञापयति, ततोऽस्य शास्त्ररि पापदृष्टिताऽभिसन्धिरेव सम्भवतीति सूत्रार्थः ॥ ३९ ॥ विनयसर्व| खमुपदेष्टुमाह
ण को आयरियं, अप्पाणंपिण कोवए । बुद्धोवघाई न सिया, न सिया तोत्तगवेसए ॥४०॥ (सूत्रम्) व्याख्या- 'न कोपयेत्' न कोपोपेतं कुर्यात्, आचार्यम् उपलक्षणत्वादपरमपि विनयार्हम्, 'आत्मानमपि' गुरुभिरतिपरुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत् कथञ्चित् सकोपतायामपि 'बुद्धोपघाती' आचार्योपघातकृत् 'न स्यात्' न भवेत् तथा न स्यात् तुद्यते - व्यथ्यतेऽनेनेति तोत्रं - द्रव्यतः प्राजनको भावतस्तु तद्दोषोद्भावकतया (व्यथोपजनकं वचनमेव, सद् गवेषयति किमहममीषां जात्यादिदूषकं वच्मि ? इत्यन्वेषयतीति तोत्रगवेषकः, प्रक्रमादुरूणां न स्यादिति चादरख्यापनार्थत्वान्न पुनरुक्तं, यदुक्तं - बुद्धोपघाती न स्यात्तत्रोदाहरणं - कश्चिदाचार्यादिगणिगुणसम्पत्समन्वितो युगप्रधानः प्रक्षीणप्रायकर्माऽऽचार्योऽनियतविहारितया विहर्तुमिच्छन्नपि परिक्षीणजङ्घावलः क्वचिदेकस्थान एवावतस्थे तत्रत्यश्रावकजनेन चैतेषु भगवत्सु सत्सु तीर्थं सनाथमिति विचिन्तयता तद्वयोऽवस्थासमुचितस्त्रि
Forsy
निर्युक्तिः [६४...]
~127~
अध्ययनम् १
॥ ६२ ॥
wrp
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः