________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३३], मूलं [-] / गाथा ||४-१५||
नियुक्ति : [५३२...]
(४३)
प्रत सूत्रांक [४-१५]
अभ्यधिकं पुनः पुनरुपभुज्यमानतया भुज्यत इत्युपभोगः-पुनः पुनरुपभोग्यभवनाङ्गनादिविषयः, उक्तं हि-"सेति भुजइत्ति भोगो सो पुण आहारपुप्फमाईओ। उपभोगो उ पुणो पुण उवभुजइ व भवणवणियाई ॥१॥" तस्मिन् , विशेषेण ईर्यते-चेष्ट्यतेऽनेनेति वीर्य तस्मिन् , 'तथा' समुचये सर्वत्रान्तरायमिति प्रक्रमः, ततश्च विषयभेदात्पञ्चविधमन्तरायं समासेन व्याख्यातं, तत्र दानान्तरायं यत्सति विशिष्टे ग्रहीतरि देये च वस्तुनि तत्फलमवगग्छतोऽपि दाने प्रवृत्तिमुपहन्ति, यत्पुनर्विशिष्टेऽपि दातरि यावन्निपुणेऽपि याचितरि उपलब्धिउपधातकृत् तल्लाभान्तरायं, भोगान्तरायं तु सति विभवादौ सम्पद्यमाने च आहारमाल्यादौ यशान भुले, उपभोगान्तरायं तु यस्योदयात्सदपि वस्खालकारादि नोपभुक्ते, वीर्यान्तरायं यदशालिवान्नीरुग्वयःस्थः अथ च तृणकुब्जीकरणेऽप्यसमर्थ इति सूत्रद्वादशकार्थः १२॥ | इत्थं प्रकृतयोऽभिहिताः, सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धनाय चाह
एयाओ मूल पयडीओ, उत्तराओ अ आहिया । पएसग्गं खित्तकाले य, भावं चादुत्तरं सुण ॥१६॥
'एताः' अनन्तरोक्का ज्ञानावरणादिरूपा मूलप्रकृतयः, तथा 'उत्तराः' इत्युत्तरप्रकृतयश्च श्रुतावरणाद्याः, चशब्दः तेश्रुतादीनामप्यक्षरानक्षरादिभेदतो बहुविधत्वादनुक्तबहुभेदसूचकः आख्याताः' कथिताःप्रदेशाः-परमाणवतेषामग्रंपरिमाणं प्रदेशाग्रं 'खेत्तकाले यत्ति क्षेत्रकाली च तत्र क्षियन्ति-निवसन्ति तस्मिन्निति क्षेत्रम्-आकाशं कालश्च१ सकद् भुज्यते इति भोगः स पुनराहारपुष्पादिः । उपभोगस्तु अनेकशः पुनः पुनरुपभुज्यते वा भवनवनिवादिः ॥ १॥
दीप अनुक्रम [१३६१
-१३७२]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1287~