________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-] / गाथा ||२२-९९|| नियुक्ति: [५२६...]
(४३)
15%
प्रत सूत्रांक
[२२
-९९]
E0%ACTICS
क्लेिशं या' मरणान्तवाधात्मक, रागेणातुरो-विहलो रागातुरः सन् 'से' इति स लोकप्रतीतः 'यथा वा' इति बाश-161 ब्दस्यैवकारार्थत्वाद् 'यथैव' येनैव प्रकारेण पतङ्गः शलभः आलोक:-अतिस्निग्धदीपशिखादिदर्शनं तस्मिन् लोलोलम्पट आलोकलोलः समुपैति 'मृत्यु' प्राणत्याग, तस्यापि गृयाऽऽलोकलोलत्वं राग एवेति भावः । 'यश्च' इति यस्तु, अपीति च तस्मिन्नित्यनेन योक्ष्यते 'दोष' द्वेष 'समुतित्ति बचनव्यत्ययात् 'समुपैति' समुपगच्छति रूपेबितिप्रक्रमः 'नित्यं सदा न तु कदाचित्, स किमित्याह-तस्मिन्नपि 'क्षणे प्रस्तावे यस्मिन् द्वेष उत्पन्नः 'स' इति सः 'तुः परणे उपैति 'दुःख' शारीरादि, द्विष्टो हि किमिदमनिष्टं मया दृष्टमिति मनसा व्याकुलीभवति परितप्यते च I देहेन, न तु यथा रागमुपगच्छंस्तत्काले मनोज्ञविषयावलोकनजनितं सुखमभिमन्यते उत्तरकालमेव तु दुःखमिति, पठन्ति च 'समुति सचंति स्पष्टं, यदि रूपदर्शनाद् द्वेषमुपगच्छन् दुःखमुपैति ततस्तथाविधरूपदोषेणैवाख दुःखावाप्तिरिति प्राप्तमित्याशङ्कवाह-दुष्टं दमनं दुर्दान्तं तच प्रक्रमाचक्षुषस्तदेव दोषो दुर्दान्तदोषस्तेन 'खकेन' आत्मी-| येन 'जन्तुः' प्राणी, न किञ्चित्' खल्पमपि रूपं प्रक्रमादमनोज्ञम् 'अपराध्यति' दुष्यति से' तस्य, यदि हि रूप-2 मेवापराध्येन्न कस्यचिद्वेषाभावः स्यात्, तथा च मुक्त्यभावादयो दोषा इति भावः । इत्थं रागद्वेषयोयोरप्यनर्थहेतुत्वमुक्तमिदानी तु द्वेपस्यापि रागहेतुकत्वात्स एव महाऽनर्थमूलमिति दर्शयंस्तस्य विशेषतः परिहर्त्तव्यता ख्यापयितुमाह-'एकान्तरक्तो' यो न कथञ्चिद्विरागं याति 'रुचिरें मनोरमे रूपे, किमित्याह-'अतालिसि'त्ति
दीप अनुक्रम [१२६८-१३४५]
% A5%
vमुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1259~