________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३१], मूलं [-]/गाथा ||२-२०|| नियुक्ति: [५१८...]
(४३)
प्रत
सूत्रांक
[२-२०]
सम्यगध्यास्ते । विरुद्धा विरूपा या कथा विकथा,सा च स्त्रीभक्तजनपदनृपतिभेदतश्चतुर्धा, कषायाः-क्रोधमानमायालो|भाः सज्ञा-आहारभयमैथुनपरिग्रहाख्याः, एषां कृतद्वन्द्वानां प्रत्येकं चतुष्कमिति शेषः, 'झाणाणं च'त्ति प्राकृतस्वाद ध्यानयोश्च द्विकमारौद्ररूपं तथा यो भिक्षुः 'वर्जयति' परिहरति, चतुर्विधत्वाच ध्यानस्यात्र प्रस्तावेऽभिधानम् । 'व्रतेषु' हिंसाऽनृतस्तेयात्रमपरिग्रहविरतिलक्षणेषु 'इन्द्रियार्थेषु' शब्दरूपरसगन्धस्पर्शेषु 'समिति समित्यध्ययना|भिहितासु च क्रियासु-कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातरूपासु, पठन्ति च 'समीतीसु
य तहेव यत्ति, अत्र च चशब्दाक्रियासु चेति यो भिक्षुः 'यतते' यत्नं कुरुते यथावत्परिपालनातो व्रतसमितिले |माध्यस्थ्यविधानतश्चेन्द्रियार्थेषु परिहारतश्च क्रियासु । 'लेश्यासु' वक्ष्यमाणरूपासु 'पदसु कायेषु' पृथिव्यादिषु वक्ष्यमाणेष्वेव षङ्के पट्रपरिमाणे 'आहारकारणे वेदनादायुक्तरूपे यो भिक्षुः 'यतते' यथायोग निरोधोत्पादनरक्षानुरोधविधानेन यलं कुरुते । "पिण्डावग्रहप्रतिमासु' आहारग्रहणविषयाभिग्रहरूपासु संसृष्टादिष्वनन्तरा|ध्ययनोक्तासु सप्तखिति संवध्यते, तथा 'भयस्थानेषु' भयस्य-भवमोहनीयसमुत्थात्मपरिणामस्योत्पत्तिनिमित्ततयाऽऽश्रयेषु इहलोकादिषु प्रागुक्तरूपेषु 'सप्तसु' सप्तसङ्खयेषु यो भिक्षुः 'यतते' एकत्र तु पालनातोऽन्यत्र तदशेन भयाकरणतः । मदा-जातिमदादयः प्रागभिहिता अष्टौ तेषु, प्रतीतत्वाचेहान्यत्र च सूत्रे सङ्ख्यानभिधानं, ब्रह्म-वनचर्यं तस्य गोपनं गुप्तिर्यकाभिस्ता ब्रह्मगुप्तयो गमकत्वादहुव्रीहिस्तासु वसत्यादिषु नवसु, उक्तं च
दीप अनुक्रम [१२२७-१२४५]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1223~