________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-1 /गाथा ||३१-३६|| नियुक्ति: [५१३...]
(४३)
प्रत
सूत्रांक
-३६॥
आदिशब्दात्प्रतिक्रमणाहीदिपरिग्रहः, इह पुनरुपचारादेवंविधपापविशुद्धयुपायभूतान्यालोचनादीन्येवालोचनार्दादिशब्देनोक्तानि, उपचारनिमित्तं चात्र विषयविषयिभावः, एवंविधानि हि पापान्यालोचनादीनां विषय आलोचनादीनि च विषयीणीति भावनीयं, तथा चान्यत्र 'आलोयणपडिक्कमणे' त्यादिनाऽहंशब्दं विनैव तद्भेदाभिधानं, तदेवंविधमालोचनाईमादिर्यस्य तदालोचनार्हादिकं, शेषाद्विभाषेति (पा.५-४-१५४)कप्प्रत्ययः, 'प्रायश्चित्तम्' उक्तनिरुक्तं 'तुः। अवधारणे भिन्नक्रमश्च, ततः 'दशविधमेव' दशप्रकारमेव, दशविधत्वं चेत्यम्-"आलोयण पडिकमणे मीस विवेगे तहा विउस्सग्गे। तव छेय मूल अणवठ्ठया य पारंचिए चेव ॥१॥" 'जत्ति आर्षत्वाद् यद्भिक्षुः 'वहति' आसेवते 'सम्यग'। अवैपरीत्येन प्रायश्चित्तं तदाख्यातम् शा विनयमाह-अभ्युत्थानमञ्जलिकरणमुभयमपि प्रतीतं 'तथे ति समुच्चये 'एवेति पूरणे 'आसणदायण'ति सूत्रत्वादासनदानं पीठादिदानमित्यर्थः, गुरूणां गौरवार्हाणां भक्तिर्गुरुभक्तिः, भावः-अन्तः। करणं तेन शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वा भावशुश्रूषा, विनय एष व्याख्यातः २॥ वैयावृत्त्यमाहआयरियमाईत्तिमकारोऽलाक्षणिकस्ततः आचायोदिके आचार्य(यादि)विषये व्यापृतभावो वैयावृत्त्यम्-उचिताहारादिसम्पादनम् ,उक्तश्च-"यावचं वावडभायो तह धम्मसाहणणिमित्तं। अन्नाइयाण विहिणा संपाडणमेस भावत्यो॥१॥"
१ आलोचना प्रतिक्रमणं मिश्र विवेकस्तथा व्युत्सर्गः । तपश्छेदो मूलमनवस्थाप्यता च पाराभिकमेव ॥१॥२ वैयावृत्त्यं व्यापृत|भावस्तथा धर्मसाधननिमित्तम् । अन्नादिकानां विधिना संपादनमेष भावार्थः ॥ २ ॥
दीप अनुक्रम [१२१९-१२२४]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1215~