________________
आगम
(४३)
प्रत
सूत्रांक
||३०||
दीप
अनुक्रम
[३०]
“उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||३०||
अध्ययनं [१],
Education intemational
यंति कौल्कुचं- करचरणभ्रूभ्रमणाद्यस चेष्टात्मकमस्येत्यल्पकौत्कुचः, अनेनाप्यौपचारिकविनयः प्रकारान्तरेणोक्त इति सूत्रार्थः ॥ ३० ॥ सम्प्रति चरणकरणविनयात्मिकामेषणासमितिमाह-arr क्खिमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवजित्ता, काले कालं समायरे ॥ ३१॥ (सूत्रम् )
व्याख्या- 'काले ' ति सप्तम्यर्थे तृतीया, काले प्रस्तावे 'निष्क्रामेत्' गच्छेत् भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसम्भवात् तथा कालेन च 'प्रतिक्रामेत्' प्रतिनिवर्त्तेत, भिक्षाटनादिति शेषः, इदमुक्तं भवति - अलाभेऽपि - जलाभोति न सोइजा, तवोत्ति अहियासए' इति समयमनुस्मरन्, अल्पं मया लब्धं न लब्धं वेति लाभार्थी नाटज्ञेव तिष्ठेत् किमित्येवमत आह- 'अकाल' तत्तत्क्रियाया असमयं चेति, यस्माद्विपर्ययकाले प्रस्तावे प्रत्युप्रेक्षणादिसम्बन्धिनि 'कालमिति तत्तत्कालोचितं क्रियाकाण्डं 'समाचरेत् कुर्यात्, अन्यथा कृषीवल कृषीक्रियाया | इवाभिमतफलोपलम्भासम्भव इति गर्भार्थः, अनेन च कालनिष्क्रमणादी हेतुरुक्तः, प्रसङ्गात् शेषक्रियाविषयतया वा नेयं, समुचयार्थश्च तदा चशब्द इति सूत्रार्थः ॥ ३१ ॥ निर्गतश्च यत्कुर्यात्तदाह
परिवाडिए ण चिट्टिजा, भिक्खू दत्तेसणं चरे। पडिरूवेण एसिप्ता, मियं कालेण भक्खए ॥३२॥ (सूत्रम्) व्याख्या 'परिपाटी' गृहपतिः, तस्यां 'न तिछेत् न पङ्किस्थगृहभिक्षोपादानायैकत्रावस्थितो भवति, तत्र १ अलाभ इति न शोचेत् तप इत्यध्यासीत ।
For Fans Only
निर्युक्तिः [६४...]
~ 120~
www.janbay.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः