________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||३२||
नियुक्ति: [६४...]
(४३)
उत्तराध्य.
बृहद्वृत्तिः ॥ ५९॥
प्रत सूत्रांक ||३२||
दायकदोषाऽनवगमप्रसङ्गात् , यद्वा-पङ्क्त्यां -मोक्तुमुपविष्टपुरुषादिसम्बन्धिन्यां न तिष्ठेत् , अप्रीत्यदृष्टकल्याणतादि- अध्ययनम् दोषसम्भवात् , किञ्च ? 'भिक्षुः' यतिः, दत्तं-दानं तस्मिन् गृहिणा दीयमाने 'एषणां' तद्गतदोषान्वेषणात्मिका 'चरेत् ' आसेवेत, 'चरतिः आसेवायामपि वर्त्तते' इति वचनात् , अनेन ग्रहणैषणोक्ता, किं विधाय दत्तषणां चरेत् ?-'प्रतिरूपेण' प्रधानेन रूपेणेति गम्यते, यवा-प्रतिप्रतिबिम्ब चिरन्तनमुनीनां यद्रूपं तेन, उभयत्र पतद्ग्रहादिधारणात्मकेन सकलान्यधार्मिकविलक्षणेन, न तु 'वखं छत्र छात्रं पात्रं यष्टिं च वर्जयेद् भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षाऽपि ॥१॥' इत्यादिवचनाकर्णनाद् विभूषणात्मकेनैपयित्वा,अनेन च गवेषणाविधिरुक्तः, ग्रासैपणाविधिमाह-'मितं' परिमितमतिभोजनात् खाध्यायविधातादिबहुदोषसंभवात् , 'कालेन' इति- णमोकारेण पारित्ता, करिता जिणसंथवं। सज्झायं पट्टवित्ता णं, वीसमेज खणं मुणी ॥१॥' इत्याद्यागमोक्तप्रस्तावेनाद्रुताविलम्बितरूपेण वा 'भक्षयेत्' भुञ्जीतेति सूत्रार्थः ॥ ३२ ॥ यत्रान्यभिक्षुकासंभवस्तत्र बिधिरुक्तः, यत्र तु पुराऽऽयातान्यभिक्षुकसम्भवस्तत्र विधिमाह
नाइदूरे अणासपणे,नन्नेसिं चक्खुफासओ। एगो चिट्रेज भत्तट्रलंबित्ता तं नइक्कमे॥३३॥(सूत्रम्) व्याख्या-'नातिदूरं' सुवव्यत्ययात् नातिदूरे-अतिविप्रकर्षवति देशे, तिष्ठेदिति सम्बन्धः, तत्र च तन्निर्गमावस्था-16 १ नमस्कारेण पारयित्वा कृत्वा (च) जिनसंतवम् । स्वाध्यायं प्रस्थाप्य विश्राम्येन् क्षणं मुनिः ।। १॥
दीप अनुक्रम
[३२]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~121~