________________
आगम
(४३)
प्रत
सूत्रांक
[R
-७३]
दीप
अनुक्रम [१११४
- ११८७]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१२-७३] / गाथा ||--||
अध्ययनं [२९],
Education intol
विशुद्धिः सर्वथा क्षयो मिथ्यात्वविशुद्धिस्तां कृत्वा दर्शनस्य - प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको निरतिचारपालनाकृद्दर्शनाराधको भवति, तथाऽपि किमित्याह - दर्शनविशुद्ध्या च 'विशुद्ध्या' अत्यन्तनिर्मलया 'अस्ति' विद्यते 'एगय'त्ति एककः कश्चित्तथाविधो भवस्तेनैव 'भवग्रहणेन' जन्मोपादानेन सिद्ध्यति, किमुक्तं भवति ? - यस्मिन्नेव जन्मनि दर्शनस्य तथाविधा शुद्धिस्तत्रैव मुक्तिं गच्छति, यथा मरुदेवी स्वामिनी, यस्तु न तेनैव सिद्ध्यति स किमित्याह-शुद्ध्या-प्रक्रमादर्शनस्य विशुद्ध्या 'तचं 'ति तृतीयं पुनर्भवग्रहणम् - अन्यजन्मोपादानात्मकं 'नातिक्रामति' नातिवर्त्तते, अवश्यं तृतीयभवग्रहणे सिद्ध्यतीत्यर्थः, उत्कृष्टदर्शनाराधकापेक्षयैतत् यत उक्तम् - "उक्कोसदंसणे णं भंते! जीवे कहहिं भवग्गहणेहिं सिज्झिज्जा १, गोयमा ! उक्कोसेणं तेणेव ततो मुक्के तइयं णाइकमति” १ ॥ संवेगाचावश्यम्भावी निर्वेद इति तमाह-इतः प्रभृति सर्वत्र सुगमत्वान्न प्रश्नव्याख्या, 'निवेदेन' सामान्यतः संसारविषयेण कदाऽसौ त्यक्ष्यामीत्येवंरूपेण दिव्यमानुषतैरश्रेषु, सूत्रत्वात्कप्रत्ययः, यथासम्भवं देवादिसम्बन्धिषु कामभोगेषूतरूपेण निर्वेदं हवमागच्छति यथा-अलमेतैरनर्थहेतुभिरिति तथा च 'सर्वविषयेषु विरज्यते' अशेषशब्दादिविषयं विरागमाप्नोति, विरज्यमानस्तेषु आरम्भः - प्राण्युपमर्दको व्यापारस्तत्त्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां तत्परित्यागं कुर्वन् 'संसारमार्ग ' मिथ्यात्वाविरत्यादिरूपं व्यवच्छिनत्ति, तत्त्यागवत एव तत्त्वत आरम्भपरित्यागसम्भवात् तद्व्यवच्छित्तौ च सुप्राप एव १ उत्कृष्टदर्शनेन भदन्त ! जीवः कतिभिर्भवग्रहणैः सिध्येत् ?, गौतम ! उत्कर्षेण तेनैव ततो मुक्तस्तृतीयं नातिक्राम्यति ।
For Fans Only
निर्युक्ति: [५०९...]
~ 1153~
www.janbay.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः