________________
आगम
(४३)
प्रत
सूत्रांक
॥१७
-२७||
दीप
अनुक्रम
[१०९२
-११०२]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा ||१७-२७||
अध्ययनं [२८],
तत्त्वरुचिमवाप्नोति स सङ्क्षेपरुचिरुच्यते । धर्मरुचिमाह-योऽस्तिकायानां धर्मादीनां धर्मो - गत्युपष्टम्भादिरस्तिकाय - धर्मस्तं जातावेकवचनं, 'श्रुतधर्मम्' अङ्गप्रविष्टाद्यागमस्वरूपं 'खलुः' वाक्यालङ्कारे 'चरित्रधर्म वा' सामायिकादि, वस्य चार्थत्वात्, 'श्रद्दधाति' तथेति प्रतिपद्यते 'जिनाभिहितं' तीर्थकुदुक्तं स धर्मरुचिरिति ज्ञातव्यो, धर्मेषु-पर्यायेषु धर्मे वा श्रुतधर्मादौ रुचिरस्येतिकृत्वा, शिष्यमतिव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानम्, अन्यथा हि निसर्गोपदेशयोरधिगमादी वा क्वचित्केषांचिदन्तर्भाव इति भावनीयमिति सूत्रैकादशकार्थः । कैः पुनलिङ्गैरिदं दशविधमपि सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयमित्याह
Education infamational
परमत्थसंधवो वा सुपरमत्थसेवणा वावि । वावन्नकुदंसणवज्रणा य संमत्तसदहणा ॥ २८ ॥ परमाश्च ते तात्त्विकत्वेनार्थाश्चार्यमाणत्वेन परमार्थाः -जीवादयस्तेषु संस्तवो- गुणकीर्त्तनं तत्खरूपं पुनः पुनः परि| भावनाजनितः परिचयो वा परमार्थसंस्तवो, वाशब्द उत्तरापेक्षः समुच्चये, तथा सुष्ठु यथावद्दर्शितया दृष्टा- उपलब्धाः परमार्था-जीवादयो यैस्ते सुदृष्टपरमार्था - आचार्यादयस्तेषां सेवनं पर्युपासनम्, इहोत्तरत्र च (प्राकृतत्वात् सूत्रत्वाच स्त्रीलिङ्गनिर्देशः, बेत्यनुक्तसमुचये, ततो यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, 'अपिः' पूर्वापेक्षः समुच्चये, 'वावण्णकुदंसण त्ति दर्शनशब्दः प्रत्येकमभिसंबध्यते ततो व्यापनं— बिनएं दर्शनं येषां ते व्यापन्नदर्शनाः-यैरवाप्यापि सम्यक्त्वं तथाविधकर्मोदयाद्वान्तं तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः- शाक्यादयस्तेषां च वर्जनं-- परिहारो व्यापन्नकु
निर्युक्ति: [५०२...]
Forest Use Only
~ 1129~
www.ncbrary.or
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः