________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८],
मूलं [-] / गाथा ||१४-१५|| नियुक्ति: [५०२...]
(४३)
प्रत
सूत्रांक
||१४-१५||
सङ्ख्यैचाभिधेया स्यात् , तथा च वक्ष्यति-"जीवा चेव अजीवा य, एस लोगे बियाहिए"त्ति, विस्तरतस्तु तदुत्तरो
त्तरभेदविवक्षयाऽनन्तमेव स्यात् । यद्यमी नव तथ्यास्ततः किमित्याह-'तथ्यानां तु भावानाम्' अनन्तरोदितजीवाददिखरूपाणां 'सद्भावे' सद्भावविषयं, किमुक्तं भवति ?-एतदवितथसत्ताभिधायकम् 'उपदेशनं' गादिसम्बन्धिनम
पदेशं 'भावेन' अन्तःकरणेन 'श्रद्दधतः' तथेति प्रतिपद्यमानस्य सम्यग्भावः सम्यक्त्वं दर्शनमितियावत् 'तदिति भाषश्रद्धानं विशेषेणाख्यातं तीर्घकदादिभिरिति गम्यते,पठन्ति च-'सम्भावो(वेणो)वएसणे। भावेण उ सद्दहणा सम्मत्त होति आहि' 'सद्दहणे ति सूत्रत्वात् श्रद्धानं सम्यक्त्वं भवत्याख्यातं, तच श्रधात्यनेन जीवादितत्त्वमिति श्रद्धानंसम्यक्त्यमोहनीयकर्माणुक्षयक्षयोप(शमोप) शमसमुत्थात्मपरिणामरूपम् , उक्तं हि-"से य समत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पण्णत्ति"त्ति, अवश्यं हि स कश्चिदात्मनः परिणामोऽस्ति येन सत्यपि जीवादिखरूपावबोधे कस्यचिदेव सम्यक् प्रतिपत्तिर्भवति न पुनः सर्वस्य, यथा हिं सत्यपि दर्शने कश्चित् शङ्के वेतिमानं प्रतिपद्यते अन्यस्त्वन्यथाभावमिति तत्र कारणविशेषोऽनुमीयते, एवमिहापि, ततश्च जीवादिखरूपपरिज्ञानख सम्यग्भावहेतुरात्मपरिणामविशेषः सम्यक्त्वं, न तु ज्ञानखरूपमेव, अत एव हि ज्ञानादावरणभेदो विषयभेदः कारणभेदो ज्ञानकारणत्वं च सम्यक्त्वस्य श्रुतकेवलिनोकं, यत्तु 'तत्त्वार्थश्रद्धानं
१ तच सम्यक्त्वं प्रशस्तसम्यक्त्वमोहनीयकर्माणुवेदनोपशमध्यसमुत्थः प्रशमसंवेगादिलिङ्गः शुभ आत्मपरिणामः प्रजातः ।
04-4
दीप अनुक्रम [१०८९-१०९०]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1123~